पृष्ठम्:तिलकमञ्जरी.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३८ काव्यमाला नड् वलं जातम् । प्राणनाशाय निविडमाहितः कण्ठदेशे पाशोऽपि पुष्पमाला संवृत्ता । नितान्तकटुकिंपाकफलरसोऽपि रसायनत्वेन परिणतः । कृतमतिकान्तवद्धचिन्तया । यावदिह स्थिता दैत्यस्य वा यातुधानस्य वान्यस्य वा कस्यापि दुष्टात्मनो दृष्टिगोचरे न पतामि,तावदिह तीराश्रमनिवासिमुनिपरम्पराखानपुण्यीकृतपयसि दिव्ये महासरसि शरीरमुत्सृजामि । येन जन्मान्तरेऽपीदृशस्य प्रियवियोगदुःखस्य भाजनं न भवामि' इति कृतमरणनिश्चया तेनावलगलज्जलबिन्दुना दिव्यांशुकपटेन स्तनतटावरणाय गात्रिका बद्धुमारब्धवती ।

 दृष्टवती च तस्यैकदेशे दृढतरग्रन्थिसंयतमतिपृथुलताडीपत्रसंचारितसुरेखाक्षरं लेखमेकम् । उदकमिन्नं च तं सयत्नमुद्वेष्ट्य कौतुकेन स्वैरं स्वैरमवधारितवती-'खस्ति । महाराजाधिराजचन्द्रकेतुचरणारविन्दमधुकरो युवराजसमरकेतुः काभ्यां सकलदक्षिणक्षोणिपालशिखरमहाराजकुसुमशेखरवंशकुमुदाकरशशिकलां मलयसुन्दरी सप्रेमबहुमानमात्मीयदेहारोम्यवार्तया सुखयति । स्मरामि तस्यातिचारुचन्द्रोद्भतेरमृतोत्पत्तिदिवसस्येव परमानन्दहेतोरनकोत्सवदिनप्रदोषस्य, यत्र गादविरहदुःखार्तमानसेन मया जन्मान्तरेऽप्यसंभावितपुनदर्शना कृशोदरि, विनैव यसमवलोकितासि । कृतार्थ मे करतलद्वन्द्वम्, येन मन्दं मन्दमारब्धसंवाहनेन लब्धः खेच्छया तुलिततापाहतशिरीषकुसुमशेखरसौकुमार्यो विलासिनि, विपाशितायास्तवासस्पर्शः । तत्त्कालनिर्जनं नरेन्द्रभवनोद्यानम्, सा कृत्तकरिदन्तावदाता प्रदोषचन्द्रिका,स सूक्ष्मशितसुकुमारवालुकः कुमुददीपिकातीरभागः, सा त्वदासनपरिग्रहगुरुकते कमलिनीपलाशशयनैकदेशे स्थितिः, तानि च ममाम्भोविनिर्गमावगमाय कथमपि कृतप्रभायाः प्रीतिपिशुनितानि ते नितान्त-