पृष्ठम्:तिलकमञ्जरी.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ३३९

मल्पाक्षराणि लज्जाजसितानि मृतस्यापि मे न स्मृतेरपयास्यन्ति । किं करोमि । दूरदेशान्तरस्थितिस्त्वन्मुखावलोकनसुखप्रतिबन्धिनी जाता ।चेतसा तु सर्वदा समीपेऽहम् । अत्रैव गाढकण्ठग्रह पुरःसरं बन्धुसुन्दरी विज्ञाप्यते।

श्रुत्वात्यद्भुतमस्मदाजिललितं वैतलिकेभ्यः प्रगे
प्रीतात्काधिनराधिपात्तव सखी प्राप्यादरप्रार्थिताम् ।
वोढास्मीति मनोरथः स्थगयतो वाद्यं तदा योऽभव-
नाधन्यस्य जितेऽपि विद्विषि स मे दैवेन संपादितः॥

 तथापि देव्याः शरीरे दृढमप्रमत्तया भवितव्यम्' इति । स च लेखः सलिललवप्रलप्ताक्षरतया स्थानथानेषु दुर्विबोधिभावार्थोऽपि भाक्तिः सर्वोऽपि । उत्पत्तिस्थानं तु सर्वादरव्याप्तदृश न मयाभ्यूहितं तस्य ।

 ततोऽहं दुःखभागिनी तस्य लेखस्य दर्शनेन पुनरुपजातजीविताभिलाषा 'जीवति प्रियो मम' इति सानन्दा, 'स्मरति पूर्वमनुभूतानां मत्समागमसुखानाम्' इति साश्रुपाता, “प्रनष्टजीवितानां दुर्घटं पुनः प्राणनम्' इति निराशा, 'बस्तनतिथिन्यासलाञ्छिता लेखोत्पत्तिः' इति सविसया, 'मत्खलीकरणाय माया न कस्यापि केली किलस्पेयम्' इति सवितो, 'स्वयमजातानुभवस्य दुरभिलेखा वचनपद्धतिरसौ' इति सावष्टम्भा, दुर्लभः पुनरीदृशे पुण्यसरसि शरीरत्यागः' इति मरणोन्मुखी, 'महती प्रियस्य मत्प्राणपरिरक्षणविधौ बन्धुसुन्दरी प्रति प्रार्थना इति सविलम्बा, इत्यनेकविकल्पकवलितमनोवृत्तिरात्मनः कर्तव्यमालोचयन्ती तिष्ठामि यावत् , तावदनिलोल्लासिताभिः कल्लोलततिभिस्ताब्यमानं क्षीरमगमज्जवेन तदारुभवनम् । ततोऽहमवतीर्य तस्मादत्र दिव्ये सरसि विहितबाना कृताभिमतदेवतार्चनक्रिया तटासन्नवर्तिनस्तरोरेकस मूलमाश्रित्य चिन्तानिःसहशरीरा समुपाविशम् ।