पृष्ठम्:तिलकमञ्जरी.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

किमित्यकाण्डे कमण्डलुजलेन मां सिञ्चसि । स्वस्थचित्ताहमधुना ।दूरमुपसृतो मे संतापः' इति गद्दाक्षरं गदन्ती चक्षुरुदमीलयम् ।अपश्यं च दिव्यदारवप्रासादकाभ्यन्तरस्थमाईचन्दनप्रवालकल्पितोपचानेमृणालकन्दलिनि नलिनीपत्रसंस्तरे निषण्णं यथावस्थितसरलसर्वावयवमुतानशयमतिशयमृदुस्पर्शेन पृथुना स्वा (श्वा)सहार्येण पट्टांशुकप्रावरणेन चरणावधिप्रच्छादितमच्छशिशिरेण निपतता समन्ततस्तन्तुजालविवरैर्वारिपूरेणोपरिष्टादवष्टभ्यमानमेकाकिनमात्मानम् । उत्पन्न विस्मया च 'कस्येदं दारुभवनम् , केन वाहमिह निक्षिप्ता' इति चिन्तयन्ती मुहूर्तमतिष्ठम् । अवलोकयितुकामा च तन्निवासिनं जनमुत्थाय शयनादासन्नदृष्टेन सोपानसंक्रमेण चकितचकितोपरितनी भूमिमध्यरोहम् ।तत्राप्यदृष्टमानुषप्रचारा गवाक्षमधिरुबाप्रतो दत्तचक्षुरद्राक्षमस्यैव रसातलगम्भीरवारेरदृष्टपाराग्यस्य दिव्यसरसः क्षीरसागरस्येव मन्दरमुदर-भागे मन्दिरम् ।

 तत्प्लवमानमवलोक्य चोपजातविस्मया मनस्यकरवम्—'हन्त, कः प्रदेश एषः । न तदिह तपोवनम् । न तन्निवासी तापसजनः । न सा गवलशिखिगलश्यामलया मलयगिरिमूलवनमालया समन्ततो मालिता लवणजलराशिवेला । न तत्र स्थिताहम् । न सा मत्पार्श्ववर्तिनी तरङ्गलेखा । सर्वमिदमन्यत्र विज्ञायते किमिति । अथवा ज्ञातमेव ।तथा तथोपजनितैः पुरा मे मानसैः शारीरेश्च दुःखनिवहैरजातपरितोषो विधिरेष विविधं विजृम्भते । न जाने कियन्मयाद्यापि दुष्कृतसफलमुपभोक्तव्यम् , केषु देशान्तरेषु गन्तव्यम् , कान्यवस्थान्तराण्यनुः भवितव्यानि, किं कालावविबन्धुजनवियोगो विषोढव्यः । मरणमपि पापकारिण्या न संपद्यते । तथा हि—पूरितसप्तपातालमुदधिजलमपि


२२ ति म