पृष्ठम्:तिलकमञ्जरी.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३४ काव्यमाला। श्रुत्वा चोपजातकम्पा कष्टमागतः कोऽप्यनुपदी' इति चिन्तयन्ती वेगवलितकण्ठनाला पृष्ठतो व्यलोकयम् । अपश्यं च नातिदूरे दूरदोलायमानबाहुयुगलां क्लमविशुशलपदक्षेपचटुलेन गतिमिव, त्वरयितुमजसमायतिमता केशपाशेन पृष्ठे ताब्यमानामवसस्तनिवसनग्रन्थिसंवरणविहस्तवामहस्तामशक्तमुत्सर्पता दक्षिणकरेण श्रमश्वासवलगत्कुचयुगास्फालितं गलितमुत्तरीयवल्कलपान्तमंसदेशे निवेशयन्तीम् , आसन्नमणिशिलानिपतितप्रतिच्छायाछलेनात्मदेहमपि गतिविलम्बविद्वेषण स्थाने स्थान इव निक्षिपन्तीम् , यथादर्शनमनुप्रस्थितेन संभ्रमस्खलितगतिना तापसीजनेन दूरविच्छिन्नेनानुगम्यमानमार्गम् , प्रेमदोषादुमेक्षिताया मत्तृषः प्रशमनाय गृहीतखादुसलिलपूरितकमण्डलुमापतन्तीम् ।आकुलाकुला तरङ्गलेखाम् ।

 उत्पन्नवैलक्ष्या च तदवेक्षणेन 'कष्टम् , न संपन्नमिष्टम् । अविनीवतायाश्च नीतः पात्रतामात्मा । किं करोमि । आगतेयमन्तिके । न शक्यत इदानीमुदन्वत्पयसि पुण्येऽस्मिन्नपुण्योपहतमुज्झितुं हतशरीरकमेतत्' इति चिन्तयित्वा क्षणं दिक्षु निहितोद्विमदृष्टिझटिति संनिधावेव दृष्टस्य खमावाकृष्टकजलकूटकालिनः कालकूटविषराशेरिव मथनसंनिहितशिपिविष्टकवलितावशिष्टस्य विटपहारदूरावर्जितमान्तस्य निरन्तरतया पर्णसंहतीनामर्ककिरणैरपि मरणभीतैरिव परिहृताभ्यन्तरप्रवेशस्य मारुतापूर्णितनिखिलशाखानिवहमात्मानमपि सर्वाङ्गव्यापिना निजवेषेण वितलीकृतमिव प्रकाशयतश्चञ्चुपुटनिविष्टचर्चितावशिष्टफलशकलैरितस्ततो सूतैश्च मूछितैश्च स्पन्दमानैश्च श्वसद्भिश्च निश्चेतनैर्वनशकुन्तैर्निरन्तर कान्तमूलदेशावकाशस्य किंपाकनामो विद्रुमस्य हृद्यस्पर्शगन्धवर्णमति-


१. अन्वेष्टा. २. 'मासक्य ' इति स्यात. ३. मत्पिपासायाः.