पृष्ठम्:तिलकमञ्जरी.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३३३

 लोकितत्वदानना मर्तुमपि हताशा न शक्नोमि । निष्करुणकीर्तिः प्रिया ते नाहं न चान्यः कश्चिदिति किं न जानामि । युक्तकारी महासत्त्वः खार्थविमुखश्च भवानिति च किं न वेनि। तथाप्यनेकपापात्मना तमोरूपेण प्रेमनाम्ना महाग्रहेण गृहीता ! हस्तगोचरगतोऽपि दैवहतया न प्राप्तः पतिस्त्वमिति चिन्तयन्ती शोकपरवशा निस्त्रपं विलपामि । सर्वथा कृतार्थस्त्वमुन्नामितस्त्वयैकेन सूनुना सिंहलेन्द्रवंशः । तवैकस्य जगति निष्कलकं यशः । त्वमेकः सकलभूपालराजपुत्रेषु ग्राहनामा । मरणमपि तवैव श्लाघ्यमेकस्य । येनैकाकिन्न तत्कालमेव निर्गत्य शिबिरादसोढपरिभवेनासंख्यसेनापरिबृढपरीतः प्रापितः परामवनतिमरातिः। अनेन पुनरुचितकारित्वेन कृतविप्रियोऽपि नितरां प्रियोऽसि मे । यत्तदा बन्धुसुन्दरीवचनेन युक्तोऽपि न प्रयुक्तस्त्वयामदपहारः । केवलमिदं बाधते यदुपवर्णितं तया मत्प्रदानोदन्तमाकर्ण्य तूष्णीमेव निर्गच्छता नृपोद्यानादीषदपि नाभाषिताहम्'इत्यादि विविधं व्यलपम् ।

 अल्पीभूताशोकोद्रेका चे 'मुचिराक्रन्दितेनात्र दयितयानपात्रिकासपर्कसुभगे सागराम्भसि विसृज्य निर्वापयामि तीवदुःखानलशिखाजालकवलितानिमान्प्राणान्' इति विचिन्त्य चेलाञ्चलप्रमृष्टप्रबलरोदनोच्छूननयना स्नेहनिर्गताश्रुसलिलक्लिनदृष्टिमिरागत्यागत्य परिचयात्युरोद्भवन्तीभिरवगताभिप्रायाभिरिव निरुद्धयमाण(न)मार्गा वनमृगीभिः प्रस्थिता पदानि कतिचित् ।पृष्ठतः पारावारपुलिने यथोत्तरं विस्तरन्तमपरस्परानुलममच्छिन्नसंतानमनितलताडितानामन्तरान्तरा दलन्तीनां शुक्तिकानामारवेणानुसूतमनतिमसृणं वालकारणितमशृणवम् ।


१. 'भूतशोको' इति स्यात्, २. 'च किं सुचिरा' इति स्यात्,