पृष्ठम्:तिलकमञ्जरी.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३२५

मतिमहान्तमेकस्य सकलजगदेकचूडामणेः कन्यकारत्नस्य परिरक्षणेन रक्षन्ननन्तं प्राणिसंघातम्' इति विक्लवं विलपन्तीमिमामेव तव सहचरीं बन्धुसुन्दरीमद्राक्षम् । दृष्ट्वा च तीवदुःखोपतप्तहृदयः सदयमवदम्- 'भद्रे, का त्वम् , किमर्थमाक्रन्दसि, केयं कन्यका, कस्यापत्यम् ,किमस्या जातम् , किं चास्माभिरत्र प्रतिविधातव्यम्' इत्यभिहितासौ विलोक्य मा तत्कालमेव खस्थानगतजीविता शिरसि बद्धाञ्जलिम् 'भ्रातर्, अलमलं प्रश्नेन । ममैव पृष्ठतो धाव धाव । शीघ्रं कुरु कुरु प्रगुणां करे कृपाणिकाम् । छिन्धि छिन्धि पुरतोऽस्य सरसीतीरशाखिनः स्कन्धशाखानिबद्धमस्या महाराजदुहितुः कन्धरापाशम् । मा विधेहि तावदन्यं व्याक्षेपम् । आवेदयिष्यामि सर्वमेतद्यदि मे मनोरथाः संपत्स्यन्ते' इति संभ्रान्तहृदया गदन्ती गददखरेण श्वासविधुराधरा प्राकारशिखरादवतीर्य सत्वरा मध्ये तरूणामधावत् । अहमपि तथाविधाकृतदर्शनेन क्षिपतरमुत्क्षिप्तपादः पदान्यनुसरन्नस्यास्त्वत्समीपमागच्छम्' इति निवेद्य निजवृत्तान्तमुपशान्तवचसि तस्मिन्सविस्मया बन्धुसुन्दरी क्षणमिव स्थित्वान्तरिक्षमैक्षत ।

बभाषे च किंचित्क्षुभितहृदया—'कुमार, कस्मान्निराकुलस्तिष्ठसि ।उत्तिष्ठ यावदक्षीणभूयिष्ठा रात्रिः। अन्वेष्टारश्च यावदिह नापतन्ति तावदेनां प्रापय प्रच्छन्नामेव निजदेशम् । अति हि विरुद्धमत्रावस्थानमस्याः । शृणु । निवेदयामि । यतः करग्रहणवार्ताश्रवणभीतयाध्यकसितमेतदुहुन्धनविधानेन मरणमेतया । तस्यैव शक्रसेनापतेर्वज्रायुधस्य प्रदास्यति प्रातरेनामतिनिबिडविग्रहनिपीडितो द्रविडदेशाधिपतिः । उपनीता च संघित्सुना तेन दुर्निषेधाविरोधहेतुश्च । नीता तु


१. कृति' स्यात. २. ढोकिता.