पृष्ठम्:तिलकमञ्जरी.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला देशान्तरमिदानीमेव शत्रोरपहृता भवति सुखेन चातिवाहयति कालम् ।कालान्तरे च सकलवरगुणोपेतेन निर्व्याजसुहृदा महाराजतनयेन गत्वा त्वया गृहीतपाणिः क्रमाधिगतवृत्तान्तस्य पितुरपि परां प्रीतिमावहति ।तदेवमत्र क्षणे निर्जनादितो वृक्षगहनादपहरणमस्या गुणवदतिमात्रमा-भाति मे । तथापि त्वं प्रमाणम् ।

 'सोऽपि तच्छ्रुत्वा कृतविमर्शः— 'सूक्तवादिनि, मुक्तवादिनि, युक्तमभिहितम् । किं तु दुष्करमिदं मादृशानाम् । अहं हि वारंवारमभ्यर्थितेन प्रतिपद्य मित्रतां शत्रुगृहीतस्य राज्ञस्ताबकस्य साहाय्यकाय पित्रा समादिष्टः । तेनास्य सर्वथा सराष्ट्रस्य सपशोः सपुत्रदारस्य रक्षाविधी मया व्याप्तव्यम् । यदा तु छलेन रात्रावुपेत्य प्राणभूतामस्य दुहितरमपहरामि, तदा तदपकारकृत्येषु नित्यमेव निषण्णबुद्धेर्वत्रायुधस्स मम च न व्यतिरिच्यते किंचित् । किं च हृत्वा गत इमामनवनिर्दोषगीतचरितस्य तस्यापि पितुरात्मीयस्य दर्शयिष्यामि कथमात्मानम् । आस्तां च तावत्स मे तातः । इयमम्युचितकारिणी त्वदीया सहचरी विवाहसमये 'पश्य वरमुखम्' इति व्यापारिता प्रियसखीभिः कथमानन्दनिर्भरा मे वदनमवलोकयिप्यति । तदलमनेन कर्मणा । मा त्वरख ।स क्रमः कोऽपि चिन्तनीयो येन दातुमेतामुद्यतः काञ्चीविषयाधिपोऽपि निषिध्यते । विरोधोऽपि सार्धममुना न वर्धते । इयमपि प्रीतिकारिणी पितुर्भवति ।' इत्यभिधाय नीत्वा च कन्यान्तःपुरप्रवेशं यावदायामदृष्टमुखविकारः प्रकृत्यैव गत्या स्वशिबिरं प्रति प्रस्थितः ।

 प्रस्थिते च तत्र क्षणमात्रदत्तान्तरेणोत्पाद्य परमं शैत्यमुपनीततीव्रतरदाहव्यथेन विषमज्वरेणेव पुनरपि विरहदुःखेनाध्यासितामादाय मां बन्धुसुन्दरी कन्यान्तःपुरमगच्छत् ।


१. 'युक' स्यात,