पृष्ठम्:तिलकमञ्जरी.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। पणुनकरकोपलपकरपातमुखरसप्तिखुरपुटध्वानजनितजगज्वरेषु प्रस- पंहपश्रेणिचूडामणिमरीचिचक्रविरचितेन्द्रचाफ्कलापेषु प्रत्यावृत्तपथम- जलघरसमयशकाविधायिषु लोकस्य यदीयसैन्येषु सकल्पतिपक्षलक्ष्मी- जिघृक्षया शरत्समये समन्ततःप्रचलितेषु विषमजलनिधिमध्यवासिनोऽपि कंसद्विष इव द्वीपावनीपालनिवहस्य निद्राक्षयमगच्छत । अन्यच । यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैर्भुवः । बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ।। लतावनपरिक्षिप्ते निन्ये यदरिभिर्निशा । विन्ध्यादेखल्परुचिरे न वेश्मनि नवेऽश्मनि ॥ अन्तर्दधागुरुशुचावाप यस्य जगत्पतेः। नारीणां संहतिवारुवेषा कारागृहे रतिम् ।। दृष्ट्वा वैरस्य वैरस्यमुज्झितास्त्रो रिपुवजः । यस्मिन्विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥ स राजा बाल एवाधिगतराज्याभिषेकः सकलभुवनामिमाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम्, कृत्वा सववसंचरणशीलस्य यशसः सुखप्रचारार्थमिव निष्कण्टकाः ककुमः; दिकुम्भिनामालानखम्भनानुकारिणः समारोपितखनामवर्णाः श्रेणीका- नारोग्य दिशामष्टानामपि पर्यन्तेषु, जयस्तम्भानुपार्जितप्रभूतकोशं. नक्षीकृतसमस्तसामन्चमायसमन्त्रिमण्डलमुपगृहीतमित्रवर्गमाप्तपुरुषाधिष्ठि- दुर्ग समप्रमापि राज्यमाजन्मनः प्रसढपरमसौहृदस्य हृदयस्येवाति- विश्वसनीयस्य बाहोरिव वसुंधराभारवहनक्षमस्कन्धस्य प्रगल्भमत्युपह- सितविषणस्यापि प्रज्ञावतां धौरेयस्य विदितनिःशेषनीतिशाखसंहतेर- १. "विष विप्रयोगे' इति धातोर्वेष इति रूपम् , ततथा वेषो विप्रयोगोयस्याः: