पृष्ठम्:तिलकमञ्जरी.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। सिकते श्रूयमाणशोकातकोककामिनीवारुणविरुतौ तटशिलातलास्फालवाचालवीचिमाले तत्कालमुदिताः कुमुदिनीरिव द्रष्टुमाकृष्टतिर्यकप्रसृतपादपच्छायेन गगनमध्यमध्यासिना शशधरेणाधोमुखैर्मयूखयष्टिमिरुसारिताशेषप्रदोषतमसि चन्द्रप्रभाप्राचुर्याश्च दूरापमृतसलिलेऽपि खच्छजलतिरोहित इवोपलक्ष्यमाणकुमुददीपिकातीरदेशे निषण्णमागृहीतमदनज्वरातकामिसमुचितचारुशृङ्गारवेषमुन्मिषचन्द्रकान्तमुक्ताफलपायमणिविशेषैर्यथाखमुचितस्थानविनिवेशितैः कटककेयूरकुण्डलादिमिभूषणैरलंकृतवपुषमायामिनीभिरन्तरान्तरा लक्ष्यसरसबिसकन्दलाभिकक्षकसम्भिः सरिद्भिरिव सागरप्रपातसमये स्पर्शतृष्णया संलग्नाभिः

कृतकण्ठाहमामोदितदिशा चन्दनविलेपनेन खच्छेनाप्यतिघनेनोद्भाव्यमानेन सूचितास्मद्विरहजनितोद्दामपाण्डुभावमाशक्त(?)चञ्चाकारकर्णाभरणपद्मरागरलाकुरेण शशिहरिणहरितरोचिषा शैवलप्रवालेन कल्पितकर्णावतंसमेकशुकशकुन्ताक्रान्तशिखरमिव बालसहकारविटपमुदधिपूजाव्यतिकरे मत्करप्रकीर्णस्य हरिचन्दनद्रवस्य सुरभिसान्दैबिन्दुजालकैरलंकृतेन तेनैव चिरंतनेन चीनवाससा प्रत्युरसमजलार्द्रेणापि संपादितजला कृत्यम् , तया च प्रयत्नसंरक्षितया स्फुरदुदारवर्णयापि कस्याप्यसंविभागीकृतया सिद्धमत्रविद्ययेव दिव्यकुसुममालया खदेहपरिरक्षणाय कृतशिखाबन्धमिन्दुकान्तनिष्यन्दशिशिरं हृदि स्थिताया अपि मम प्रेमदोषादाशक्षितां पाशबन्धमूर्छामिव छेत्तुमानन्दजलबिन्दुविसरमनवरतमीक्षणाभ्यामधःप्रवर्तयन्तम् , अहदेशोपवेशितायाश्च मे मुहुर्गात्रमभिनवैः कदलीगर्भपत्रैर्वीजयन्तम् , मुहुर्जललवस्यन्दिभिः कमलिनीकन्दैरवयवानाच्छादयन्तम् , मुहुः करमृदितनिष्पीडितेन चन्दनाप्रपल्लव


१. 'शुकचक्षु' इति टिप्पणी.