पृष्ठम्:तिलकमञ्जरी.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रसेन स्तनपृष्ठमनुलिम्पन्तम् , मुहुरासन्नतरुवल्कलविवराकृष्टेन कर्पूररेणुना कपोलौ छुरयन्तम् , मुहुः खेदिना करतलेन पाशपीडितस्कन्धधमनिविधुरं कन्धरां संवाहयन्तम् , मुहुर्दृष्टिरोधिनीमनिलविधुतामलकपद्धति सलीलमुत्क्षिप्य नखशुक्तिभिः श्रवणशिखरमारोपयन्तम् , मुहुनिश्चलाक्षिपक्षमाप्रसंग्रथितमवतंसमञ्जरीरजःसरसिजगन्धिना वदनमारुतेन व्यपनयन्तम् , मुहुः श्वासपायिनो मुखवासपरिमलहृतानुद्यानमधुकृतो मधुरमुल्लासितेनोत्तरीयपल्लवेन व्यावर्तयन्तम् , आलापनाय च वारंवारमव्याहतश्वासदर्शनोपजातपरमाश्वासां बन्धुसुन्दरीं व्यापारयन्तम्,आकृतिविशेषदर्शनोपजातविश्वासया च तया सविस्तरमाख्यायमाने मदीयवृत्तान्ते सादरवितीर्णकर्णं तमेव पूर्वदृष्टमूर्वीपतिकुमारमद्राक्षम् ।दृष्ट्वा च संभ्रान्तहृदया 'किमेष पाशग्रन्थिपीडया निबिडमास्कन्दितान्ममैव हृदयाद्विनिःसृतो बहिः, अथ प्रार्थिताभिर्मदनुकम्पया देवताभिर्दिव्यशक्त्या कुतोऽप्यानीतः, उतान्यदेव किंचित्प्रयोजनमालोच्य गुरुजनेन प्रहितः, इह परिश्रमन्कौतुकेन प्राप्त आहोखिचेन चतुरोक्तिनिपुणेन नाविकेनावबोधितं, खबुद्धया वावगतमाधाय मनसि तत्कालमीहितस्य तस्यास्मदालापस्य हृदयार्थमनुरागप्रेरितः परापतितः' इति वितर्कयन्ती किंचिचलितलोचना चिरमतिष्ठम् । चिन्तयन्ती च तदचिन्तितप्राप्तमनेकजन्मोपार्जितैः सुकृतकर्मभिरपि दुरापमाकल्पावधिकृतस्तपोभिरपि दुःसाध्यं चतुर्मुखप्रमुखदेवतानिदानपरप्रदानैरप्यलभ्यं लब्धरम्भीर्वशीरूपसौभाग्यामिरप्सरोमिरप्यनमिलप्यन्तं तदाशय्यावस्थानमात्मनो दूरारूढगर्वा सर्वमपि सौभाग्येन भुवनत्रयान्तर्वति तृणाय मन्यमाना स्रैणमवजितारविन्दगर्भकेसरसौ