पृष्ठम्:तिलकमञ्जरी.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१० काव्यमाला। स्पर्शविशेषनिर्वृतं गात्रमुद्रहन्ती रोदनादुपरतामविरतविलापदलितगलन्ध्रजर्जरेण खरेण शनैः शनैरादितः प्रमृति 'यो मे वंशः, यथाहमुत्पन्ना, यथा वृद्धिमुपगता, यथा कृतः कलासु परिचयः, यथानुभूता यौवनविलासाः, यथा निशीथसमये सुप्तमात्रैव खेचरैरपहृत्य चित्रशालिकाशयनादेकाकिनी पञ्चशैलके रत्नकूटाद्रिकटकमण्डनं जिनायतनमानीता, यथा तत्र चित्रलेखारचितचतुरप्रसाधनया प्रवर्तितो गीतनृत्यादिकः प्रेक्षणकसमुचितो विधिः, यथा मनुजलोकदुर्लभलास्यप्रयोगदर्शनप्रीतेन विद्याधराधिपतिना विचित्रवीर्येण सह सविस्तर प्रवृत्तः संलापः, यथा तदुपनीतच्छत्रचामरालंकारा सदृशनेपथ्यपार्थिवकुलकुमारिकावृन्दपरिवृता पारावारमवलोकयितुमारूढा स्फाटिकं जिनायतनपर्यन्तवर्तिनं प्राकारम् , यथा च तन्मूलमाश्रित्य विहितस्थितौ नाव्यवस्थितो वीक्षितः स निजरूपनिर्मथितमन्मथाकारः पार्थिवकुमारः, यथा च प्रथम एव दूरदर्शितानुरागमुद्रया समुद्रपूजाव्यपदेशेन मुखनिवेशितोन्मुखदृशस्तस्य कन्धरायामधिरोपिता स्वहस्तेन दिव्या खयंवरकुसुममाला, यथा च तिलकक्रियानन्तरमेव केनापि हेतुना समुपजाताश्चित्तविप्लवादुल्लुत्य जलनिधौ कृतप्रपातस्य प्रीतिलचितथा तस्य भृष्टतो विहितमनुपतनम्' इत्यादिकमशेषमपि पूर्ववृत्तं मदीयवृत्तान्तमुपवर्णयन्ती तामेव बन्धुसुन्दरीमश्रौषम् ।

 'कोऽयमाप्ततमः समीपमागतोऽस्या यस्यैनमतिरहस्यमप्यस्मदपहारवृत्तान्तमावेदयति । कस्य चायममृतस्यन्दसुन्दरो देहसंस्पर्शः' इति

विमृश्य मन्दमन्दोन्मीलितेक्षणा झगिति लोचनमार्ममवतीर्णममृतकमिव पुरुषरूपमादाय मदनोत्सवदिदृक्षया क्षितावागतमतिसूक्ष्म कुमार-


१. पृष्ठतो' स्यात्,