पृष्ठम्:तिलकमञ्जरी.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गतायां च तस्यां चन्धुसुन्दरी मामवदत् । 'भर्तृदारिके, किं विषण्णा तिष्ठसि । उत्तिष्ठ । कुरु यथाक्रियमाणमात्मव्यापारम् । अति हि महानुत्सवोऽयम् । आराधनीयः सर्वादरेणात्र सर्वस्यापि स्त्रीजनस्य भगवानयुग्मेषुः, विशेषतः समुपस्थितासन्नपाणिग्रहणमङ्गलानां कुमारीणाम् । न युज्यते मुहूर्तमप्यस्मिन्ननिर्वतमनोभिः स्थातुम् । अस्थाने च भर्तृदारिकायाः खेदोऽयम् । यदेव गुरवः किंचिदादिशन्ति, यदेव कारयन्ति कृत्यमकृत्यं वा, तदेव निर्विचारैः कर्तव्यम् ।विचारो हि तद्वचनेप्वनाचारो महान्' इत्यभिहिता तया विहस्य किंचिदुत्सृष्टदीर्घनिःश्वासा शनैः शयनीयममुचम् । अत्रजं च पुरःप्रचलितप्रतीहारीजनोपदिश्यमानसरणिः स्नानमण्डपिकां च । तत्र च समन्ततः संसितविततकाण्डपटकायामध्यासितमणिवितर्दिकानिहितहेमपीठा सलीलमुभयहस्तोदनाशातकुम्भकुम्माभिर्मजनपालीभिः परिमलाकृष्टषट्पदकदम्बकेन गन्धोदकेन यथाविधि कृताभिषेका रक्ताशोकपुष्पपाटलं परिधाय पट्टवासोयुगलमप्रभागविगलदविरलवारिबिन्दुना दरसंदानितेन बालवल्लरीस्तम्बविस्तारेण स्तबकितोभयांशपीठोपकण्ठाजरठविद्रुमच्छेदपाटलपताकापटपल्लवितशिखरस्य स्कन्धशाखानिबद्धविविधरत्नदानो निरन्तरन्यस्तदीपोड्योतदलितनीरन्धविटपसंरोधसंमृतान्धकारस्य सरसकुङ्कुमस्थासकाङ्कितस्थूलसुकुमारसरलप्रकाण्डस्य प्रलधुना प्राकारमण्डलेन कुण्डलितपर्यन्तभूमेरुच्चमणिशिलापीठप्रकीर्णनानावर्णपुष्पप्रकरस्य साक्षात्सुरभिमासेन मर्त्यलोकमदनोत्सवं दर्शयितुममरकाननादिवावतारितस्य कल्पवृक्षस्य शुद्धान्तमध्यभूरुहो रक्ताशोकपादपस्य प्रत्यग्रहरिचन्दनोपलेपसुभगे मूलभागे विरचितप्रतिष्ठमचिरनिकर्तितस्नानाभिरत्युदाभरणभूषितान्यष्टिभिरनेकविच्छितिविरचितमण्डना-