पृष्ठम्:तिलकमञ्जरी.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २९९ भृत्यजनमिव निर्दयं निन्दामि, किं 'मामशरणामितो मरणतुल्यादुपद्रवात्परित्रायध्वम्' इति दर्शितदीनभावबान्धवानभिधावामि, किम् 'एवंविधा बहुदुःखभागिनी निर्भाम्यां भवता कृताहम्' इत्यूर्ध्वबाहुर्विनधिमुपालभ्योपालभ्य विलपामि, किमाकस्मिकोपनतास्मद्दुःखविद्राणकदनां बन्धुसुन्दरीमवलम्ब्य कण्ठे मुक्तकण्ठमाक्रन्दामि' इति महामोहावर्तपतिता मुहूर्तमेकं किमपि कर्तव्यमात्मनो नाज्ञाशिषम् ।

 क्षणेन चोपशान्तकलुषचेतोविवर्तावर्तवलया जलदकालसरिदिवशरदि भूयः स्वच्छतामवगच्छम् ।

 अकरवं च चेतसि-'अविज्ञाय मच्चित्तवृत्तिम् , अनाकर्ण्य वचनमम्बायाः, अनवलम्ब्य मस्पक्षज्ञातिवर्गमतम् , तथात्यन्तवत्सलेनापि किं निमित्तमिदमनुष्ठितं झटित्येव कार्यं तातेन । यदि वा न कोऽपि परमार्थतः प्रेयाननुवर्तनीयः पूजनीयो वा प्रजारक्षणमात्रकर्तव्यानां नरपतीनाम् । को वा मदीयाभिप्रायवेदनेऽवसरस्तातस्य । न हि कोऽपि कन्यकायाः प्रियः, तवायमग्रियो वेत्ति प्रदानसमये समाजमिनबन्धूनामबुधोऽपि पृच्छति । तदकारणे ममेष पितरि रोषः । कोऽत्र दोषस्तातस्य । मन्त्रिणामपि खतन्त्रमृद्धिमन्तमत्यन्तोदात्तचरितमनेकराजन्यजन्यविजयोपार्जितस्यातिमध्यासितमहाधिकार क्षत्रियकुमारमुद्दिशतां न लेशोऽप्यस्ति निर्वादस्य । ममैव प्रभूतजन्मान्तरोपार्जितप्राज्यपापसंभारायाः सर्वोऽयमपराधः, यया न लब्धच्यमलीकयापि प्रियसमागमाशया जनितं जीवलोकमुखम्' इति चिन्तयन्ती निश्चितमरणा तां चेटीमवोचम् -'भद्रे, गच्छ । विज्ञापयाम्बाम् । 'अस्ति मे विलम्बः ।स्तोकमुन्निन्द्रकेणाध विद्राणोद्यमा न यास्यामि कंचित्कालम् । विकालवेलायां गमिष्याम्युद्यानम्' इत्युदीर्य कात्यायनिकां व्यसर्जयम् ।


१. सूर्यास्तसमये.