पृष्ठम्:तिलकमञ्जरी.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। एकदा च विविक्तदेशस्थितां बन्धुसुन्दरी मामपृच्छत्-'भर्तृदारिके, तदा समुद्रोदरे तस्य कर्णधारधौरेयस्य नौस्तव च्छद्मना विधाय तां तथाविधप्रार्थनामुपनीतनिजपतेरपि दत्तं त्वया प्रतिवचनम्' इति पृच्छती विहस्य तामहं प्रत्यवोचम्-'सखि, किमेतेन तव चिन्तितेन । अद्यापि बहु चिन्तनीयमास्ते । यदि तावदवहितस्तस्य मद्वचनस्यार्थमवधारयिष्यति । निममश्च सागरादुत्तरिष्यति ।नितान्तमनुरको वा मयि भविष्यति । स्थानं चैतदागमिप्यति । ततः स एव तन्नायकस्तबावेदयिष्यति । न चेकि मिथ्याप्रलापेन' इत्युक्तामयैषा मौनमभजत् ।

 अहमपि ततः प्रभृति निभृतेन्द्रियवर्गवृत्तिर्गुरुजनानुवृत्त्या कृतप्रणयापि कुसुमताम्बूलभूषणाङ्गरागेषु वैराग्यमन्तः परमुद्वहन्ती, मुहुर्मुहुः प्रमृष्टपर्यश्रुनयना यथादृष्टमाकारं तस्य नृपकुमारस्य संचार्य चित्रफलके सततमवलोकयन्ती, प्रयत्नपरिपालितामिः खसंवर्धितानां प्रधानवीरुधां सुमनोभिर्मनसिजं त्रिकालमर्चयन्ती, पोषितभर्तृकोपदिष्टनीत्या कष्टरूपाणि प्रियसमागमव्रतानि शश्वत्पालयन्ती, प्रियदर्शनं पुरुषवर्गमग्रतः प्रकटितोदारवेषं स्त्रीनिर्विशेषमवगच्छन्ती, स्मरातुरैर्नृपतिसुनुभिः स्वानुरागसंदर्शनाय प्रयुक्ताभिः पुरपरिव्राजकामिः सख्यमवजन्ती, विहितापरवरनामोद्धट्टना 'न दातव्यामि कस्मैचित्' इति सखीमुखेन जननी निवारयन्ती, 'दुःसहः प्रियवियोगः' इत्युपजातकरुणा च दोहदानुभावाद्दिवापि विकसितानां विलासदीर्षिकानीलनलिनाकराणां प्रभान्धकारेषु रजनीशझ्या विघटितानि मुग्धचक्रवाकमिथुनानि मिथः संयोजयन्ती, जडचेतसा परिजनेन भिन्नभिनाश्रयावस्थापितानि शुकचको-


१. “हिता तस्य' इति स्यात् ,