पृष्ठम्:तिलकमञ्जरी.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २९५

मखिलयामिनीजागरणविद्राणवदनश्रियमाहारपरितारादधिकतरतनूदरीमवलोक्य मामेकाकिनीमनुस्मृतपूर्वदिननिवेदिताशेषमद्वृत्तान्ता 'हन्त यः स कोऽपि कण्ठे कुसुममालामारोप्य कल्पितो बरत्वेनानया नृपकुमारः, तस्मान्न शक्यते वाक्यशतैरपि निवर्तयितुमतिनिश्चलनिश्चयैषा ।विषादोऽप्येष तत्सागरपतनजनितो नियतमस्याः' इति चिन्तयित्वा मुहूर्तमार्तहृदया मामवादीत्---'भर्तृदारिके, विदितं मया ते शोककारणम् । अनाकुलास्स्व भविष्यत्यवश्यं तव तेन नरपतिसृनुना सह समागमप्राप्तिः । अवितथादेशो हि तत्रभवानार्यवमुरातः । न तद्भाषितोऽर्थः कदाचिद्विसंवदति । निगदितं चानेन तव जन्मनि-'योऽस्याः कन्यकायाः पाणिं ग्रहीप्यति स निःशेषभुवनेश्वरस्य भूभुजो राज्यभारमखिलमपि चिन्तयिष्यति । चिन्तितश्च स त्वयात्मनः पाणिग्राहः । तस्मादल्पमपि कार्यों न निवेदः । न च सुकृतकर्मणा केवलेनैव संजातसंभवानां भवादशीनामनुबन्धमप्राप्येषु वन्तुषु विधत्ते बुद्धिः । अचिरेणैव भोम्यं त्वया सकलभुवनश्वर्यम्' इत्यादिदर्शितबहुविकल्परुपपत्तिमद्भिस्तदीयजल्पैः किंचिदल्पीभृतशोका तत्कालमासन्नवर्तितयातस्योत्तारणसमर्थस्य कर्णधारसार्थस्य समुद्रपतितेनाप्यनासादितविपत्तः पुनः खस्थानमुपगतस्य दृश्यमानतयात्मदेहस्य दुम्त्यजतया

जीवितस्य दुनिषेधतया प्रियजनसमागमाशावन्धस्यावश्यमनुभाव्यतया च दुःखानामीदृशानां प्रत्यक्षवीक्षितमरणमपि तं जनं जीवन्तमुत्प्रेक्षभाणा तत्र क्षणे मोक्तुमुचितं शरीरमाहारं च न परित्यक्तवती ।


१. 'परित्यक्ता' स्यात् २ 'यत् इति' इति स्यात्. ३. आदरम् अभिलाषं च.