पृष्ठम्:तिलकमञ्जरी.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९० काव्यमाला।

दृष्ट्वा च तत्क्षणमेव तत्प्राकारशृङ्गमुत्सङ्गमिव हिमगिरेरक्रमोच्छिन्नकल्पलतावितानं ताभिरवनीपालकन्याभिः शून्यमुत्पन्नसाध्वसा झगिति मोहमगमम् । उपलब्धचेतना च चिन्तयन्त्यनन्तरमेवोपजायमानमात्मनोपहरणसदृशं नरेन्द्रसूनुना सह वियोगमुद्वेगाग्निमग्नदेहा यावदतिवाहयामि क्षणमात्रम् , तावत्सोऽपि नृपकुमारः प्राकारशिखरमवलोक्य निर्जनमतर्कितोदीर्णशोकः शीर्णतरुरिवातितूर्णवातापनीतजीर्णपर्णनिवहः सहसैव विच्छायतामगच्छत् ।

 दृष्ट्वा च तन्मया स्वहस्तारोपितमुरस्थलावलम्बि स्वयंवरदाम युगपदास्कन्दितो हर्षविषादलज्जादिभिर्भावैः कृताकारसंवृतिः स्थित्वा क्षण- मकाण्डविफलीभूतनिजसमीहितविषण्णं तमात्मनः प्रणयिनं नाविकयुवानमवदत्-~-'तारक, किमर्थं विषीदसि वृथा । कस्तवात्र दोषः ।किं करोति सततमवहितोऽपि पुरुषश्छन्नवपुषां प्रकृत्यैव मायिनाम् ।कृतं त्वया यत्कर्तव्यम् । आविष्कृतः नेहस्य भक्तरभियुक्ततायाश्चैषा क्रमः । प्रापितो मतिविशेषः प्रकर्षम् । आनीतमवधिमप्रयत्नेन कार्यमारब्धम् । आहितो हेलयैवातिदुष्करो मे कन्यारतलाभः । यत्तु घटितोऽप्यसौ झटिति विघटितस्तद्विधातुरस्मद्भाग्यदोषपोषितपुरुषकारस्य दौरात्म्यम् , न ते बुद्धिगुणस्य । तदलमनुतापेन । गच्छ त्वमेभिर्निजसहायैः सह स्कन्धावारम् । कारय किरातयोधायोधनेषु दृष्टनिर्व्याजभुजपराक्रमाणामनुजीविनां जीवनमुदारम् । दापय निर्देशेन में स्वदेशमुद्दिश्याधुनैव प्रयाणमखिलसेनापरिवृढं दृढवर्माणम् । कुरु चमुपुरःसरानमात्यसामन्तदण्डनायकान् । उत्साहय सहायविकलं कुलीनसेवकव्यूहम् । संवाहय छन्नमन्नदानेनाखण्डदण्डयात्राकर्शितशम्बलमनीकदुर्बललोकम् । आलोकय त्वरितमेव गत्वा तातम् । अर्पय