पृष्ठम्:तिलकमञ्जरी.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २८९ ततोऽहमादाय तस्मात्पुष्पपटलकादेकमतिमनोहरं कराभ्यां कुसुमदाम किंचिदवनमितपूर्वकाया समुद्रपूजाव्यपदेशेन तस्य प्राकारतलवर्तिनो नृपकुमारस्य कण्ठदेशे न्यवेशयम् । उपरि कीर्णहरिचन्दनद्रवायां च मयि स राजपुरुषस्तैनानुलेपनेन तासामस्मदासनवर्तिनीनां राजकन्यानामलिकलेखासु तिलकानकार्षीत् । अहमपि खहस्तविरचितविशेषकैकस्याः सविधवर्तिन्याः कन्यकायाः करतलादाय वदनावलोकनव्याजेन मणिदर्पणमन्तरितपार्श्वपरिजनदृष्टिपाता तिर्यक्प्रवर्तितेन चक्षुषा तस्य तत्क्षणोपजातद्विगुणसौभाग्यमालेखालावण्यमखिलमप्यपास्तशङ्का पुनः पुनरापिबम् ।  अथ प्रीतिपुलकिततनुः स पृथ्वीपालतनयः स्तनकण्ठावलम्बितत्करार्पितेन पुष्पदाम्ना तत्र क्षणे साक्षादवाअ सपाणिग्रहणमात्मानं मन्यमानो विहस्य किंचिद्विहितनतिमात्मनः प्रणयिनं कर्णधारमब्रवीत्–'तारक,किमीक्ष्यसे वारंवारम् । अस्याः स्रजः खण्डमपि मया न विभजनीयम् । यदि पुनस्तवाभिलाषोऽत्र, तदिमामेव भङ्या कयापि भूयः प्रार्थयस्वेदृशीमपरां पुष्पमालाम्' इत्यभिहितोऽसौ सदुःखमवदत्--'कुमार, कमहमिह याचे । विफलतां गतः स तावन्मम प्रयासः ।

सहैव परिजनेन सा तव प्रणयिनी स्वशक्त्या तिरोधाय पश्यत एव मे नीता कैश्चिदपि मायाविभिः । इहैव स्थितस्य ते हस्तगोचरगतां करिष्यामि तामिति न पूर्णा मे मनोरथाः क्षीणपुण्यस्य' इति अहं तु तच्छ्रुत्वा 'हन्त, किमनेन नर्मणा भाषितमिदम् , उत कथंचिदुत्पन्नविभ्रमः । सत्यमेवैष मां न विभावयति, तेनैतदभिधत्ते' इति चिन्तयन्ती दृढानुरागनिश्चलमाकृष्य तस्य क्षितिपसूनोराननाच्चक्षुः समन्तादवेक्षितवती ।


'लम्बिनातक' स्यात्. ११तिमं०