पृष्ठम्:तिलकमञ्जरी.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला गल्भ्यया किमालम्बितकुटिलभावया कि प्राञ्जलया, तत्कालमहमपि न जानामि कीदृश्या दृशा तमद्राक्षम् ।  सोऽपि नृपकुमारः सविनमं परिप्रमन्तीनामाकर्ण्य तासां राजकन्यानामाभरणमणिरणितमनणुतरमुपरि तस्स प्राकारस्य संक्रमितदृष्टिराविष्कृततथाविधानेकवित्रमा मामपश्यत् । दर्शनादेव चासौ जन्मसहभुवं पुमानिव सांख्यपरिकल्पितः प्रकृतिममुञ्चन्निसर्गधीरोऽपि सागर इव सरणानितस्ततस्तरलकुटिलानक्षिपत्कराक्षान् ।अस्पृष्टोऽपि जलनिधिमारुतेन प्रत्यक्रमुद्गतपुलकपद्धतिरकम्पत । चिरोत्सृष्टमुक्तनिद्रोऽपि तत्क्षणप्रतिबुद्ध इव साङ्गभङ्गमजृम्भत् । प्रगल्भवागपि सगद्दखरः खकर्मसु कर्णधारानतत्वरत् ।दर्शयितुमिव मे भुजाश्लेषलीलामुदीरितचतुरवचनाचामरग्राहिणी सहासमाश्लिक्षत् । प्रकाशयितुमिव वदनचुम्बनप्रपञ्चमीबदामीलितदले लीलांशुजन्मनि प्रवालपाटलमघरपल्लवपुटमजीघटत् ।निवेदयितुमिव दन्तच्छदच्छेदमनिमित्तमेवादाय नागबल्लिदलशकलमप्रदशनसंदंशेन शनकैरखण्डयत् । कथयितुमिव नखच्छेदवैदग्ध्यमायताङ्गुष्ठकररुहारेण तरुणकेतकगर्भपत्रमनतिदीर्घलेखालाञ्छितोदरमकाभीत् । प्रपञ्चयितुमिव ताडनक्रममकाण्डदर्शिताश्लीलचेष्टां समासनसंवाहिका सहासः करतलागेण स्कन्धदेशे पुनः पुनरवधीत् ।

 निह्नोतुकामश्च लज्जयात्मनो मन्मथविकाराननेकानि चित्तहारीणि चेष्टितान्यकरोत् । तथा हि—मदवलोकनावदस्यन्दमानन्दाश्रुबिन्दुविसरमतिभाखरेण रत्नादर्शतेजसा जनितमिति मुहुर्मुहुरपप्रथत् । मदीयलीलालापप्रदत्तावधानः शून्येन मनसा वन्दिनं सुभाषितान्यपाठयत् ।मत्समागमध्यानमीलिताक्षः पुरस्थापिते वृथैव तूलिकया चित्रफलके


१. 'लीलाम्बुजन्मनि' इति स्यात्