पृष्ठम्:तिलकमञ्जरी.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २७५

रुमुख्यैः शिखरिभिः प्रयत्नदुग्धनिःशेषरत्नाया अप्यमुष्या दृश्यन्त ईदृशान्यद्यापि पुरुषरत्नान्युत्पद्यमानानि, येषां रूपलावण्यादिगुणगणः कुसुममार्गणस्यापि रूपगर्वमपहरति'। इति चिन्तयन्त्या एव मे साभ्यसूयः स्वरूपमाविष्कर्तुमिव हृदयमविशद्गृहीतशृङ्गारो मकरकेतुः ।  तदनुमार्गप्रविष्टरचितरणलाक्षारसलाञ्छितेष्विव प्रससार सर्वाङ्गेषु रागः। वीतरागदेवतागारसंनिधौ विरुद्धं रागिणामवस्थानमिति क्षालयितुमिव तमक्षारीत्खेदविसरः । स्वेदजलजनितजाड्योद्रेकेव बद्धपबलकम्पा किमपि रोमाञ्चजालकमुच्चममुचत्कुचस्थली ।  ततोऽहं लज्जयानुरागेण च युगपदास्कन्दिता 'शीतलो जलधिवेलानिलः' इति विमुक्तसीत्कारा मुहुः सहचरीजनमन्तरे कृत्वा, 'कर्कशो बालातपस्पर्शः' इति मुहुरुत्तरियांशुकेनाननं खगयित्वा, 'श्रान्तातिदीर्घसोपानपथलनेन, इत्यङ्गमार शालशृङ्गोत्सकसजिनं कृत्वा, कृतोपसर्पण कृतसंलापं कृताकारनिरीक्षणं कृतपरिहार्स न केवलमात्मनस्तस्यापि तं निजसखीजन प्रियमपि सरोषमीक्षमाणा 'काहम् , कागता, क खिता, को मे देशः, के ज्ञातयः, किं मया प्रस्तुतम् , किमारब्धम्' इत्यजातस्मृतिरशृण्वती शब्दमचेतयन्ती स्पर्शमनुपजिवन्ती गन्धम्, केवलं तस्येव रूपलेखावलोकने तस्यैवावयवपूर्णतानिवर्णने तस्यैव यौवनोद्भेदमव्यताभावने तस्यैव विधमक्रमनिमालने निलीनचिता, दूरस्थिताप्यसाधारणप्रेमदर्शनोत्पन्नकारुण्येन केनाप्युंक्षिप्ततत्समीपं गमितेव तद्भुजाश्लेषस्व भाजनीकृतेव तत्संभोगसौख्यमनुभावितेव निष्पन्दसकलावयवा स्पन्दमानानन्दबलविमुषा किमारब्धमकुलया किं विकाशोत्तनया

किं स्तिमितया किं तरलतारकया किं मुग्धया किमङ्गीकृतप्रा-


१. "उक्षिप्म' इति ल्यबन्तम् उत्क्षिप्ता इति वा स्यात्