पृष्ठम्:तिलकमञ्जरी.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६४ काव्यमाला।

चुम्ब्यमाना कपोलयोः, रुदिते विनोद्यमाना विचित्रक्रीडनकैः, स्खलितेऽनुभाव्यमानावतारणकमङ्गलानि, गदिते सहासमारोप्यमाणा वक्षसि क्षितिपाललोकेन, रक्ष्यमाणा च राज्यलक्ष्मीरिव सततमप्रमत्तः शस्त्रपाणिभिर्वीरपुरुषैः, शैशवमतिवाहितवती । उचितसमये च यथाशक्त्यापीतराजकन्यकोचितविद्या सोपनिषदि नाट्यवेदे गीतवाद्यादिषु च कलासु कृतपरिचया विनयपरतया पितुरेकापत्यया मातुर्वत्सलतया ज्ञातिपक्षस्य दाक्षिण्यनिघ्नतया परिजनस्य प्रियंवदतया पौरलोकस्य परां चक्षुःप्रीतिमादधाना क्रमेण निर्वापकमविप्रयुक्तरागिमिथुनानां संतापकं दरिद्रकामिहृदयानां प्रसाधकं कुरूपाणामध्यापकमशेषविभ्रमकलानां सन्नद्धोन्नतपयोधरं वर्षासमयमिन्द्रियस्रोतसां विस्तारितकुमुदविशदस्मितं प्रदोषागर्म लावण्यचन्द्रोदयस्य वलितरङ्गितमध्यसरणि क्रीडारामं विषमबाणस्य पुलकजाड्योत्कम्पादिविकारबहुलं शिशिरावतारं तरुणजनहृदयतामरसानां अपश्चितचतुरोक्तिमग्रदूतं प्रगल्भताया उदीरितोत्कलिकासहस्र प्रलयकालं रागजलधेरङ्गीकृतवती नवयौवनाक्तारमकैः । सर्वदा च विस्तारितकलाशास्त्रविनोदेन सदृशवयसा सशरूपलावण्येन सदृशवस्त्रभूषणादिवेषपरिच्छदेन प्रियवादिना विदग्धेन निग्धेन सध्रीचीजनेनामुक्तसंनिधिरविदितप्रणयिसार्थप्रार्थनाभङ्गदुःखान्यनुभूतभोगचिन्ताज्वरजागराणि धृतिमयानीव निर्वृतिमयानीव कतिचिद्दिनान्यनैषम् ।एकदा च प्रदोषसमये निजप्रासादस्य शिखरशालायां प्रसुप्ताहमाहतानेकपटहझल्लरीमृदङ्गझात्कारमुखरेण श्रवणहारिणा दिव्यतूर्यनिनादेन निद्राममुञ्चम् । उन्मीलितलोचना च सहसैव सुरविमानसंनिभस्य नभस्तलोल्लेखिशिखरोन्नतेरतिविपुलावकाशोदरस्य साक्षादिव दिवसकरमण्डलस्य तत्कालसंनिहितपन्नगेश्वरश्वासपवनै रसातालान्मर्त्यलोकमानीतस्य