पृष्ठम्:तिलकमञ्जरी.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी । स मदान्धकविध्वंसी रुद्रः कैर्नाभिनन्धते । सुश्लिष्टललिता यस्य कथा त्रैलोक्यसुन्दरी ।। ३५॥ सन्तु कर्दमराजस्य कथं हृद्या न सूक्तयः । कविलोक्यसुन्दर्यो यस्य प्रज्ञानिधिः पिता ।। ३६ ॥ केचिद्वचसि वाच्येऽन्ये केऽप्यशून्ये कथारसे । केचिदुणे प्रसादादौ धन्याः सर्वत्र केचन ॥ ३७ ॥ अस्त्याश्चर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः कृच्छ्राल्लवितदिग्विलचिशिखरप्रामोऽप्रिमः क्ष्मामृताम् । मैनाकेन महार्णवे हरतनौ सत्या प्रवेशे कृते येनैकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ।। ३८॥ वासिष्ठैः स्म कृतस्सयो वरशतैरत कुण्डोद्भवो भूपालः परमार इत्यमिघया ख्यातो महीमण्डले । अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे विश्वामित्रजयोज्झितस्य मुजयोर्विस्फूर्जितं गुर्जराः ॥ ३९ ॥ तस्मिन्नभूद्रिपुकलत्रकपोलपत्र वल्लीवितानपरशुः परमारवंशे। श्रीवैरिसिंह इति दुर्घरसैन्यदन्ति- दन्ताप्रभिन्नचतुरर्णवकूलमित्तिः ॥ ४०॥ तत्राद्धसतिः श्रियामपरया श्रीहर्ष इत्याख्यया विख्यातश्चतुरम्बुराशिरशनादानः प्रशास्त्रा भुवः । भूपः खर्वितवैरिगर्वगरिमा श्रीसीयकः सायकाः पापोरिव यस्य पौरुषगुणाः केषां न लमा हदि ॥ ११ ॥ तस्योदयशाः समस्तमुमटयामाग्रगामी सुतः सिंहो दुर्धरशक्रसिन्धुरवतेः श्रीसिन्धुराजोऽभवत् ।