पृष्ठम्:तिलकमञ्जरी.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। न्दितोऽहममुना बदालापेन । यदि यथावेदितस्तथैवासौ कुमारः। तत्प्रवर्तख शीघ्रम् । अस्ति मे महत्प्रयोजनमस्य दर्शनेन । यथा च मम, तथास्थापि मद्दर्शनेन । केवलमिदं कुरु । गृहाण चित्रपटमेनम् । अत्र सायलेन भूत्वा लिखितमेकं मया दिव्यकुमारिकारूपमनुरुप- परिवारपरिकरम् । तदस्य कुरु कलाशास्त्रकुशलस्य कौशलिकम् । अहमपि त्वामनुपात एव । इत्यभिदधानः संनिधानस्थापितायाः प्रकृष्टचीन- कर्पटमसेविकायाः सयक्षमाकृष्य चित्रपटमेनमुपनीतवान् ।' इति निवेदयन्त्यामेव तस्यां स पथिकदारकः पार्थिवसुतस्य दर्शन- पथमाययौ । आजगाम चामिमुखमस्खलितया गत्या खभावपाटलं चरणयुगलमजलतासङ्गवेलिताभिर्मार्गवल्लिभिर्निजपल्लवकान्तिलोपाशक- येय कुसुमरजसा धूसरीकृतमुद्वहन् , गूढजानुपर्वणा वृत्तानुपूर्वेण प्रेक्षता पादक्षेपेषु सविलासमूरुदण्डयुगलेन चलितबालरम्भास्तम्मसेवि- तमुखानदेशमादर्शयन् , ज्वलदनेकपद्मरागशकलया तानवप्रकर्षादति- कष्टदृश्यमुदरदेशमाविष्कर्तुमुपसंगृहीतप्रचुरदीपयेव तपनीयपट्टिकया गाढावनद्धशुकहरितपट्टांशुकनिवसनः, शुष्कचन्दनाङ्गरागसंदेहदायिना हारच्छविपटलेन छुरितोरःकपाटः, स्खलद्विशृङ्गलप्रकोष्ठहाटकवलयं चावालस्य पाणियुगलस्य विलसन्तीभिसभयतः सलिलधाराधवलामिनख- मयूखसंततिमिरापूरयन्नासन्नतरुलतालवालानि, नीलपीतपाटलैहल्लसद्भिर- हुलीयकरत्नरागैरनुरागद्धये राजसूनोरपरमिव चित्रकर्मनर्मनिर्माणम- म्बरे कुर्वाणः, सूक्ष्मविमलेन पाटलाकुसुमपाटलाकान्तिना शरत्काल- दिवस इव बालातपेन दूरमाहितच्छायावृद्धित्तिनेत्रकूर्पासकेन, श्रवण- पाशपणयिनोरिन्द्रनीलकर्णाभरणयोरषोमुखपातिभिर्मयूखपरोहै: पक्ष्म- लितपर्यन्ततया समुपजातश्मभुलेखो दमिव वदनमुदहन्, ललाटपट्ट,