पृष्ठम्:तिलकमञ्जरी.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'१५४ काव्यमान च सपरिग्रहस्स विविधक्रीडाभिः। अत्र हि पदे पदे सुन्दरखया सुरलोकस्यापि जनितव्रीडानि क्रीडास्थानानि, स्थाने स्थाने सर्वर्तुकानि वनानि, वने वने विकचरतकुसुमस्तबकतारकितानि कल्पतरुखण्डानि, खण्डे खण्डे बहुप्रपञ्चाः काञ्चनलतादोलाः प्रतिदोलमान्दोलनक्रीडा- नन्दितानि दृश्यन्ते, सततमनवद्यवेषाणि विद्याधरद्वन्द्वानि, अपि च सानो सानौ निशाम्यते कर्णामृतं किन्नरगीतम् , भृगौ भृगावाकर्ण्यते निर्झरणझात्कृतमपि स्फीतम् , सरिति सरिति विलसन्ति रत्नवालुका- पुलिनेषु चित्राः पक्षिणः, काले काले वाति विस्तारितरतिकेलिरभराणां समीरणो दक्षिणः, प्रदेशे प्रदेशे चिन्तिते चित्तस्य जायते परा प्रीतिः, वस्तुनि वस्तुनि बिभाविते भवति लोचनद्वयस्य द्रष्टव्यदर्शनेच्छा- निवृत्तिः । तथा च छाययापि पत्रपादपच्छायानामपसरति देहिनाम- अम्लानिः, गन्धेनापि पुष्पद्रुमगन्धानामन्वी(न्घी)भवन्ति घ्राणानि, वाते- नापि चैत्रवातस्य विकटमद्वहन्ति च न लताः कुसुमाट्टहासम् , वार्तयापि दयितवार्ताया मनसि मानिनीनां करोति मन्मयः स्थानाधिपत्येना- चासम् । किंचापरोक्षवर्णनेन निर्ने(र्णे)ष्यति यथावस्थितं स्थानरूपमस्य स्वयमेवानुभूय स्वामी' इति जल्पित्वा जोषमभवत् । अहं त्वकाण्ड एव खण्डितगमनरभसेन तस्यानेन वचसानवसानेन पथापि जनितव्यथः 'कष्ंट नले सोऽप्यभिलषितया संपत्त्या सुखस्य संजातः क्लेश एव केवलमनुमतः' इति भावयन्मूलगादोद्वेगतस्तत्क्षणमधोमुखोऽभवम् । पदसोतरच तस्मै तदाकस्मिकमालोच्यालोच्य चापलमात्मनो मनसि जातहासो विस्मयपाविषादानां युगपदास्पदतामाच्छम् । अकरवं च जातपरमानुतापश्चेतसि-'हन्त, कस्मान्मया मिथ्याकुतूहलतरलितेन सहसैव तवरणमुपसत्य बाबवा शिशुनैव परामात्मानीतः ।