पृष्ठम्:तिलकमञ्जरी.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। १४७ शैलतरुखण्डेषु पिण्डयन्ती भारुण्डाण्डजकुगनि स्वल्पेनैव समयेन दूरं जगाम । प्रगुणवातप्रेरिता च व्रजन्ती तत्रातिदीर्घेऽपि वारिषिरध्वनि गगन इव मेघलेखा प्रायशो न कचिच्चस्खाल । प्रदक्षिणीकृत्य च क्रमेण तं क्षितिघ्रमभिमुखीवभूव । तस्य तूर्यशब्दप्रभवस्य पर्वतोद्देशस्य सोऽपि प्रदेशस्तां दूरादेव दर्शितोर्ध्वं- ध्वजभुजामात्मानमिव संज्ञया दर्शयन्तीमन्तिकागतां विज्ञाय सद्य एव तं वाद्यशब्दं कदाचित्तारं कदाचिन्मन्दमुच्चरन्तमच्छिन्नसंतानमाहान- शब्दमिव संजहार । विरते च वादित्रनिःखने सत्रगमनोद्यमोऽपि पुनराकर्णनाशया तथैव तारकस्तोकं गत्वा सत्वरमाचकर्ष नावम् । उवाच च विगतहर्षः--'कुमार, विश्रान्त एष तावदत्रैव प्रदेशे मार्गदेशकोऽस्माकमातोद्यध्वनिः । आज्ञापय किमधुना कर्तव्यम् । किमेवमेव बद्धवेगा पुरस्तादबद्धलक्ष(क्ष्य) मेव प्रावयर्त्यत । इयं नौ उत पश्चान्निवर्त्यते । यद्यवश्यमेव पुरः प्रयातव्यं दृष्टव्यं च कौतुकमिति निश्चयः कुमारस्य, तन्न किंचिद्विलम्बेन विचारेण वा कृतेन प्रयोजनमनेनैव पर्वतनितम्बावलम्बिना मार्गेण गम्यते । थावकिमपि दृष्टमथ न किंचिद्गतेन दृष्टेन वा कौतुकेन साध्यसिद्धिरिति बुद्धिस्त- दलमात्मना वृथैव क्लेशितेन । प्रस्थीयते स्थानादित एव प्रतीपं गम्यते शिबिरमाश्चास्यते सर्वतस्त्वददर्शनेन विक्लवीभूतो भृत्यबान्धव- मित्रलोकः । क्रियन्ते प्रस्तुतानि राज्यकार्याणि । कौतुकानि त्वपर्यवसानायामत्र दण्डयात्रायामदृश्यपारे भगवत्यकूपारे विचरतो यदृच्छया कुमारस्य पदे पदे सुलभदर्शनानि । किं च तैरयमेव तावदवधिरद्भूतानाम् , निदर्शनं दर्शनीयानाम्, संकेतशाला कुतूहल- कारिणाम् , युज्यते . रखकूटशैलः कथमपि प्रसादृष्टो द्रष्टोमनुग्रहीतुं