पृष्ठम्:तपतीसंवरणम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । as नीमस्मिन् जने प्रथय प्रणयप्रवृत्तिम् । अपि च - तुहिनगिरितरूणामद्य पुष्पावतंसान् मदन ! मलयवाताः पल्लवान् प्रेङ्खयन्तु । जनमिममभियोक्तुं भृङ्गकल्माषपुङ्खैः कुरु कुसुमशरौघैः पूरिते पुष्पतूणी ॥ ११ ॥ 3 श्रवणेन्द्रियसाफल्यजनकान्यपेक्षणीयानि वचनानि श्रुतानि । नातः परं किमपि शिष्यते । अस्मदपेक्षितस्य सर्वस्यैव सिद्धत्वात् । हृदय ! इदानीममुष्मिन् जने प्रथय प्रणयप्रवृत्तिं विस्तारय । पूर्वमेव तदभिप्रायानिश्चयेन धैर्यस्य पादग्रहणं कृतम् । इदानीं निष्प्रतिबन्धं प्रसारय । नात्र सङ्कोचोऽपेक्षितः, विषयस्य लोको- तरत्वात् स्वाधीनत्वाच्च । अत एवामुप्मिन् जन इति बहुमतिपूर्व निर्देशः । अपि चेति । त्वत्प्रवृत्तेः सहकारिणमपि सम्पादयामीति हृदयसमक्षं मदनं प्रेरयति--तु- हिनगिरीत्यादि । हे मदन! इदानीं मलयवाताः पल्लवान् प्रेङ्खयन्तु । इदानीमिति । पूर्व तव धनुरादानादिकं दृष्ट्वा विषयानिश्चयेन वितर्को जातः । इदानीं त्वया विष- यस्य दर्शितत्वात् तवोद्यमशेषमहमेव प्रार्थये । ससहायेन त्वया निश्शङ्कं प्रवर्ति- तव्यम् । प्रथमं मलयवाता तुहिनगिरितरूणां पुष्पावतंसान् पल्लवान् प्रेङ्खयन्तु । भवानेव तेषां प्रेरक इति भवत्सम्बोधनेन कथनम् । जलधितरङ्गवत् पुनःपुनरुच्चा- वचत्वेन प्रसृतावयवत्वं प्रकाशयितुं मलयवाता इति बहुवचननिर्देशः । अत्र दक्षिण दिगन्तादागतानामतिदूरत्वेन सांक्रमिकगुणसामग्रयं हीयेतेत्यत्रोपायमाह— तुहिनगिरितरूणाम् अत्र हिमवति निरन्तरस्थितानां तरूणां पुष्पावतंसान् तत्र तत्र स्फुटितपुष्पपरिशोभितान् पल्लवान् प्रेङ्खयन्तु चलयन्तु | वीजयन्त्विति न वक्तव्यं स्वतः सिद्धत्वादिति विशेषकथनम् । अत्र तुहिनगिरितरूणामित्युक्त्या शैत्य- सम्बन्धः । पुष्पावतंसानित्यनेन सौरभानुबन्धः, पल्लवानित्यनेन तेषां मृदु- तया तच्चलनेन मान्द्यं च प्रकाशितम् । अनेन निजगुण सामग्यूसम्पादनेन निरर्गलं तव साह्यं कुर्वन्तु । उपलक्षणमिदमन्येषां मदनपरिवाराणामुद्यमस्य । एवं भृत्यप्र- वृत्तरेवात्र योग्यत्वामिति बुद्धिं मा कृथाः । त्वमपि । इमं जनमित्यभिनयपूर्वं सब- हुमानमात्मनिर्देशः । इदानीं त्वदभियोगस्याहं पात्रभूतोऽवस्थितः प्रेरयामि, न १. 'मुष्मि' इति क ख ग पाठः