पृष्ठम्:तपतीसंवरणम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ तपतीसंवरणे नायिका --- (ससम्भ्रमं दिशो विलोक्य) (क) कहिं कहिं अय्यउ । (इत्यर्द्धोक्ते लज्जावनतमुखी तिष्ठति) मेनका -- (सस्मितम्) (ख) सहि ! अळं अत्थाणे संभमेण । भित्ति- भाअं उद्दिसिअ संवरणं ति मए भणिदं, णं उण दे हिअ अट्ठिअं पुरुवंसप्पदीवं राएसिं । रम्भा -- (ग) सहि! अच्चारूढो से मअणुम्मादो मं विहत्यअन्तो वि थाणाभिणिवेसो त्ति मम पीदिअरो संवुत्तो । राजां--(सप्रमोदम्) श्रुतानि श्रोतव्यानि | हृदय ! निरर्गलमिदा- (क) क्व कार्यषु। (ख) सखि! अलमस्थाने सम्भ्रमेण | भित्तिभावमुद्दिश्य संवरणमिति मया भणि- तं, न पुनस्ते हृदयस्थित पुरुवंशप्रदीपं राजर्षिम् । (ग) सखि ! अत्यारूढोऽस्या मदनोन्मादो मां विहस्तयन्नपि स्थानाभिनिवेश इति मम प्रीतिकरः संवृत्तः । जनितं सम्भ्रम ज्ञात्वा सस्मितं स्फुटीकरोति-सखीत्यादि । अलमस्थाने सम्भ्र- माविषये । मयार्थान्तरमुद्दिश्य भणितं, त्वयान्यथा निरूपितम् । भित्तिभावमुद्दिश्य भित्तिरूपं पदार्थमुद्दिश्य मया संवरणशब्दः प्रयुक्तः, न खलु ते हृदयदयितं पुरुवंशप्रदीपं राजर्षिम् उद्दिश्येति शेष | हृदयदयितत्वस्य योग्यतासमर्थनार्थं पुरु- वंशप्रदीपमित्यादि । अनुरूपे एव तवानुराग इति ॥ तस्या वैषम्यं शमयति रम्भा - सखीत्यादि । अत्यारूढो देहवैराग्यावधि प्रवृत्तोऽस्या मदनोत्मादः । मां पूर्वमस्मिन् वृत्तान्तेऽपरिचिताम् । इदानीमति- वैवश्येन विहस्तयन्नपि विषण्णां कुर्वन्नति प्रीतिकरः संवृत्तः । कथं विषादकरस्य प्रीतिहेतुत्वमित्यत्राह — स्थानाभिनिवेश इति । उचितविषयेऽभिनिवेश इत्यनेन विषादं निरस्य प्रीतिः समुल्लसतीत्यनेन युक्त एव तवानुरागः | आवयोरत्र हृद- यसवादः । तल्लज्जां परित्यजेति तदाश्वासनायोक्तिः ॥ एवं नर्मसचिवोक्त्यनुसारेण प्रतीक्षणे तासां सल्लाँपेन तस्याः सम्भ्रमेण चा- नुरागमात्मविषयं निश्चित्य नायकः सप्रमोदमाह - श्रुतानीत्यादि । श्रोतव्यानि १. ' का सहि' इति ख-घ. पाठः, २. 'ण खु दे' इति घ पाठः ३. 'सिं संवरणं । र इति ग. पाठः. ४. 'ठा' इति ग. पाठ: ५. 'जा श्रु' इति ख-घ. पाठः,