पृष्ठम्:तपतीसंवरणम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । ग्गादो अदिसुअरो हुदबहुच्छङ्गप्पवेसो । सहि ! सरसीदो सरसीरुहपत्तं आणीय वीजेहि णें । रम्भा - (तथा कृत्वा वीजयति) मेनका – (क) सहि ! णळिणीपण्णसमीरप्पसरं रुन्धइ थणंसुअं । ता अवणेहि एदं । MG नायिका – (ख) अदिप्पआसो अअं पदेसो । ता को वि मं पेक्खे । लज्जेमि अत्ताणं पआसेदुं । मेनका --- (ग) उम्मत्तिए ! दक्ख अह्माणं मणोरहसिद्धिसम्पाद- इत्तअं संवरणं । सरसीतः सरसीरुहपत्रमानीय वीजयेमाम् । (क) सखि नलिनीपर्णसमीरप्रसरं रुणद्धि स्तनांशुकम् । तदपनयैतद् । (ख) अतिप्रकाशोऽयं प्रदेशः । तत् कोऽपि मां पश्येत् । लज्जे आत्मानं प्रका- शयितुम् । (ग) उन्मत्तिके! पश्यास्माकं मनोरथसिद्धिसम्पादयितृ संवरणम् । एतस्या अङ्गसंसर्गादतिसुकरो हुतवहोत्सङ्गप्रवेशः | अग्निमध्यपतनादपि देहस्पर्श- स्य तापकरत्वम् । तत् सरस्या नलिनीपत्रमादायेमां वीजय || एवं नलिनीपत्रवीजने समीरणप्रसराय स्तनांशुकशैथिल्यं प्रार्थयन्त्यां स ख्याम् ‘अयमतिप्रकाशः प्रदेशः । तस्मात् कोऽपि पश्येत् | तन्नापनयामी'ति तदुक्तिं प्रतिक्षिपति मेनका-उन्मत्तिके! इत्यादि । अशङ्कनीये शङ्कास्फुरणाद् भ्रान्तचित्ता त्वं पश्यास्माकं मनोरथसिद्धिसम्पादयितृ । वस्त्विति शेषः । किं तदित्याकाङ्क्षाया- माह -- संवरणमिति साधारणपदम् ॥ एवमुक्तौ नायकस्य वितर्कापनयनाय नायिकायाः सम्भ्रमः प्रतिपाद्यते ॥ संवरणं पश्येत्युक्तौ अस्मन्मनोरथघटकं संवरणाख्यं नृपं पश्येत्युक्तं मत्वा 'क्व आर्यपु' इत्यर्वोक्तौ तस्यां लज्जाविवशायां मेनका अस्याः समानशब्दप्रयोग- १. 'रो खु हु' इति घ. पाठः, २. 'मं' इति ख. पाठ: ४. 'सो कदाइ को' इति ख. पाठः, घ. पाठ.. ५. 'हस' इति ३. 'दि ! रम्भे ! ण' इति ‘सो को' इति क-ग, पाठ:. घ. पाठ: ६. 'दअं. इति घ. पाठ..