पृष्ठम्:तपतीसंवरणम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ तपतीसंवरणे सख्यौ - (क) सहि! कीस तुए पाअडइत्थिआणं ओळम्बिअ मग्गं अकाळणेण अत्ता परिच्चत्तो। किं अह्मे पाणणिव्विसे- साऔ तुज्झ मणोरहं पूरदुं असमत्थाओ। को वा एत्थ जी- वळोए दे जोव्वणरूवविब्भमप्पमुहाणं गुणाणं अविहेओ । नायिकों - (प्रकाशम्) (ख) अळं एदेहि वअणेहि मं पीडिअ । बळीओ खु हिअअसन्दावो । ओळम्बह मं । मेनका -- (अवलम्बते) (स्पर्श रूपयित्वा) (ग) हद्धि एदाए अङ्गसंस- (क) सखि ! कस्मात् त्वया प्राकृतस्त्रीणामवलम्ब्य मार्गमकारणेनात्मा परित्यक्तः । किमावां प्राणनिर्विशेषे तव मनोरथं पूरयितुमसमर्थे । को वात्र जीवलोके ते यौवनरूपविभ्रम मुखाणां गुणानामविधेयः । (ख) अलमेतैर्वचनैर्मा पीडयित्वा । बलवान् खलु हृदयसन्तापः । अवलम्बेथां माम् । (ग) हा धिगू एतस्या अङ्गसंसर्गाद् अतिसुकरो हुतबहोत्सङ्गप्रवेशः । सखि ! - एवं तस्या देहपरित्यागाध्यवसायं ज्ञात्वा सख्योरधिक्षेपः– सखीत्यादि । अस्मत्सख्ये प्रथमं स्वबुद्धिकल्पनमेव न घटते किं पुनः कृत्यमिति भावः । कस्मात् त्वया विदुष्या कुलपालिकया । प्राकृतस्त्रीणां पामरीणां न्यायमवलम्ब्य हेतुं विनात्मा परित्यक्तः । प्राकृतस्त्रीणामुचितमिदम् – उद्वन्धनेन वा शिला- पातेन वा जिह्वाविकर्तनेन वा देहत्यागः । तत्रापि कारणं विनेत्यादितो दोषः । किमावां प्राणनिर्विशेषे त्वद्व्यसनसंविभागिन्यौ तव मनोरथं पूरयितुमसमर्थे । मनो- रथविषयस्यालभ्यत्वादिति चेत्, तदपि न युक्तम् । को वाद्य जीवलोके भुवने । तव यौवनरूपविलासप्रमुखाणां गुणानामविधेयः, तेष्वनास्थावानित्यर्थः । सर्वथा त्वयानुचितं कृतम् || - - इति तदधिक्षेपमसहमानाह अळमित्यादि । पीडयित्वा मत्पीडाशम- नार्थं युवयोः प्रवृत्तिः । एतैर्वचनैः पीडैव भवति ॥ एवं खेदनिस्सहाया अवलम्बने देहतापेन खिन्ना मेनकाह - हद्धीत्यादि । - १. 'पडिच्च' इति ख.पाठः २. 'अह्मे तुह पा' इति ग.पाठः. ३. 'ओ सहीओ तु' इति क-ख-ग. पाठ: ४. 'अज्ज जी' इति क-ख-ग, पाठः ५. 'का अ' इति घ. पाठः ६. 'खु मे हि' इति ख. पाठः