पृष्ठम्:तपतीसंवरणम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । CL नायिका - (क) अम्मो सहीओ।"(लज्जां नाटयति) - राजा -- (सानन्दम्) सखे ! अन्यतयानेनामाभ्यामेव सखी- भ्यामभ्युपपाद्यता विधिना साधु सम्पादितम् । विदूषकः - (ख) एदाणं सळ्ळावादो से अभिळासविसओ वि मण्णे फुडीहोईँ । नायिका - (स्वगतम्) (ग) इदाणिं एदाहिं मम भादुणो वेवस्सद- स्स दसणं पडिसिद्धं होइ । पुणो वि अतणो पर्भवस्सं । (क) अम्मो सख्यौँ । (ख) एतासां सल्लाँपादस्या अभिलाषविषयोऽपि मन्ये स्फुटभिवति । (ग) इदानीमेताभ्यां मम भ्रातुर्वैवस्वतस्य दर्शनं प्रतिषिद्धं भवति । पुनरप्यात्म- नः प्रभविष्यामि । अन्यगतहृदयामिति । अन्यो मरणाध्यवसायः तत्र गत ुद्धिम् । आभ्या- मेव सखीभ्यामित्यनेनाध्यवसायस्य मूलोच्छेदेन प्रीतिः । आभ्यां सखीभ्यामि- त्यनेन एतदभिप्राये स्थातव्यमेवानया न स्वाच्छन्द्यमनुष्टेयम् । अभ्युपपादयता घटयता । विधिनेति । विधिरेवात्र निर्वाहकः तदनुसार्येव पौरुषम् | साधु सम्पा- दितमिति । सर्वेषामेव वैषम्यशमनादिति शेषः ॥ एतासां सल्लाँपादिति । परस्परविसम्भकथनाद् अस्या अभिलाषविषयः भवता अन्यत्वेन निरूपितः मया त्वमिति निश्चितः । स्फुटीभवति प्रश्नं विना तटस्थवृत्त्या ज्ञातुं शक्यम् । तच्छृणुव इति शेषः || अथ निरुद्धाध्यवसाया सा पुनरपि वैराग्यमजहती स्वयमेव निश्चिनोति- इदानीमित्यादि । भ्रातुर्वैवस्वतस्य दर्शन मिति परलोकप्राप्तिरुक्ता । पुनरप्यात्मनः प्रभविष्यामीत्यनेन सखादर्शनेऽप्यात्मवैराग्यानुबन्धः सूचितः ॥ 1 १. 'क: भो ए' इति ख-ग. पाठ:. २. 'हिळा' इति ख-घ. पाठः ३. 'ओम' इति घ. पाठः, ४. ‘इत्ति । ना' इति ग. घ. पाठः, ५' 'वि अहं अ' इति ख. पाठः ६. 'भवामि' इति ख. पाठ..