पृष्ठम्:तपतीसंवरणम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८० तपतसंवरणे नायिका - (क) तस्सि एव्वं एदं दुक्खेक्कभाअणं सरीरहदअं उव- हारं करिस्सं । (सबाष्पगद्भदम्) हा अणाहा अहं सहीए मेण- आए रम्भाए अ पच्चिमाळिङ्गणसुहं अणासादअन्ती विव ज्जामि । (उत्तिष्ठति) राजा - अहो अत्याहितम् (उपसर्पितुनिच्छति ) सख्यौ --- (ससंभ्रममुपसृत्य साम्) (ख) सहि ! सन्तं सन्तं पावं । प डिहँदं अमङ्गळवअणं । अणेआणि कप्पन्तराणि अह्ने आळ्ङ्गती होहि । (क) तस्मिन्नेवैतद् दुःखैकभाजनं शरीरहतकमुपहारं करिष्यामि हा अनाथाहं सख्या मेनकाया रम्भायाश्च पश्चिमालिङ्गन सुखमनासादयन्ती विपद्ये । (ख) सखि! शान्तं शान्तं पापम् । प्रतिहतममङ्गलवचनम् । अनेकानि कल्पा- न्तराण्यावामालिङ्गन्ती भव । साक्षात्कृतम् । अत्या एव हस्तकौशलमिति हस्तकौशलद्वारा बहुमतिः सूचिता ॥ तस्सि एव्वेत्यादि । भगवत्सन्निधावेवेति । असौ समर्थोऽपि नानुगृह्णाति । तदत्रैव शरीरं भगवदुपहारं करोमि दुःखैकभाजनत्वात् । अनेन नान्यत् फलं, तद् भगवदुपहारसाधनं करोमीत्यर्थः । एवं देहत्यागं निश्चित्य सखीवियोगखेदेन प्रल- पति - हा अनाथेत्यादि । पश्चिमालिङ्गनसुखमिति । इतःपरमालिङ्गनाभावान्मम नित्यसिद्धं सखीसमालिङ्गनसुखमपीदानीं न लब्धम् || इति प्रलप्योत्थानेन तदध्यवसायं ज्ञात्वा नायके सम्भ्रमेणोपसर्पितुमिच्छति सत्यन्यभागस्थितयोः सख्योः सम्भ्रमेणोपसर्पणानन्तरं तस्या अमङ्गलवचनस्य प्राय- श्चित्ततया शान्तिवचनं- शान्तं शान्तं पापमिति । अन्त्विति शेषः । पापेन खल्व- निष्टप्राप्तिः । अतस्तत् पापं शान्तमस्तु । अमङ्गलं प्रतिहतमस्तु । आशंसायां भूतवत् प्रत्ययः । अनेकानीति पश्चिममित्यनेनापि समापितं निरस्यति । अह्मे आवाम् । अस्मदालिङ्गनं तवानेककल्पान्तराण्यविच्छिन्नमस्तु इति ॥ सास्रमाभ्यामध्यवसाये निरुद्धे निजाध्यवसायस्य ज्ञातत्वेन लज्जा ॥ ‘व्व दु' इति घ. पाठः, २. 'गद्गदम्' इति ग. पाठः ३. 'हदं खु अ' इति घ. पाठः. ‘अह्मेहिं आ' इति क-ख. पाठः, ५. 'झिआ हो' इति क ख. पाठः