पृष्ठम्:तपतीसंवरणम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । नायिका --- (सनिर्वेदम् ) (क) केत्तिअं वा अत्ताणं खेदइस्सं । सो मणोरहदइदो सइ हिअअकिदाहिवासौ वि मं णाणुकम्पइ । जस्स भअवदो पसादेण अहं उप्पण्णा, एसो सो कळ्ळा- णवामणो सण्णिहिदो अज्ज भए भत्तिपुरुवं आराहिदो वि मं णाणुगह्णइ | राजा --- (छोटिकां दत्वा) तदपि देवस्य सपर्याविधानमस्या एव हस्तकौशलमभूत् । (क) कियद्वात्मानं खेदयिष्यामि । स मनोरथदयितः सदा हृदयकृताधिवासोऽपि मां नानुकम्पते । यस्य भगवतः प्रसादेनाहमुत्पन्ना, एष स कल्याणवामनः सन्निहितोऽद्य मया भक्तिपूर्वमाराधितोऽपि मां नानुगृह्णाति । दुर्विकल्पैः अनिष्टैरस्थानपतितैः अलम् । कथं निषिध्यत इति चेत सकलभुवनै- कनाथशब्देन प्रतीष्टः स्वीकृत इति तर्कयामि । अन्यस्य सकलभुवनैकनाथश- ब्दवाच्यत्वाभावात् । एवमहं जन्मिनां प्राग्रेसर इति वक्तव्ये स्वयमागता सम्पत् कथमन्यसम्बन्धित्वेन निरस्यत इति ॥ अथ नायिकाया उन्मादपरकाष्ठायां वैराग्येण देहत्यागोद्यमं प्रकाशयति- कियद्वेत्यादि । कियदित्यव्ययं, वाशब्दः पूर्वोक्तात् प्रकारान्तरद्योतकः । किं मद- नहृदयादीनधिक्षिप्य । दुःखनिवृत्तेरुपायो दृष्टः । कियन्तं कालमात्मानं खेदक- क्ष्यायां विनियोक्ष्यामि इयतैवालमित्यर्थः । कथमेवं निवृत्तिरङ्गीक्रियते इत्यत्राह - स मनोरथदयितः मनोरथमात्रेण दयित इति साक्षात्सम्बन्धाभावेन खेदो व्यज्येत । सदा हृदयकृताधिवास इति अस्मद्व्यसनं जानन्नपि नानुकम्पां करोति । पुनः यस्य भगवतः प्रसादेनाहं पूर्वमुत्पन्ना एष देवः कल्याणवामनो नित्यसन्निहितो मां ना- नुकम्पते इयं मदनुग्रहेण जाता तदस्याः समीहितं करोमीति न निरूपयति । पूर्वसेवाबलेन जन्मानुग्रहः, इदानीं न तथा सेवनम् इत्यपि न । अद्य मया अ- स्मिन् काले मनोरथसिद्ध्यपेक्षिते भक्तिपूर्वमाराधित इति ॥ तद्वचनं श्रुत्वा स्मृत्यभिनय पुरस्सरं वदति – तदपीत्यादि । देवदर्शने १. 'दो हि' इति घ. पाठः २. 'कदा' इति क. पाठः, ‘कआहि' इति ख-ग. पाठ.. ३. ' सो मं' इति कन्ग, पाठः ४. 'ओ' इति क-ख-ग. पाठः, 'दो सो वि' इति ग, पाठः,