पृष्ठम्:तपतीसंवरणम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ तपतीसंवरणे आयासितानामशरीरबाणै- र्नितम्बिनीनां परिदेवितानि । आत्मार्थमाकर्णयतां हि यूनां समागमो नाम सुखान्तरायः ॥ १० ॥ विदूषकः -- (क) भो! अळं दुव्विकप्पेहिं' । तुवं एव्व भुवणेक्कणा- हसद्देण पडिच्छिदो त्ति तक्केमि । (क) भो अलं दुर्विकल्पैः । त्वमेत्र भुवनैकनाथशब्देन प्रतीष्ठ इति तर्कयामि । वनिताकुलतिलकभूतायाः । चित्तविकारः अनुरागवैवश्यम् । उपलक्षणं तत् प्रला- पादेः । यं महापुरुषं निमित्तीकृत्य जातः । सोऽत्र सन्निहितः स्याद् यदि श्रो- तृत्वेन वर्त्तमानो यदि । जन्मिनां जननवतां त्रिकालसम्बद्धानाम् । प्राग्रेसरः प्रकृष्टः अग्रेसरः उत्तमोत्तम इति यावत् । ततः परं कस्यापि प्रकर्षो नास्ति । तत्र जनन- फलसिद्धिमपेक्ष्य जन्मवैशिष्ट्यम् । फलञ्च सर्वकर्मणः सुखावाप्तिरेव । तच्चात्र स- न्निधानप्रलापश्रवणादिनैव भवत् । तत् सामान्येन समर्थयति — आयासितानामि- त्यादि । आयासितानां वाङ्मनः कायकर्मसु वैवश्यं नीतानाम् । अशरीरबाणैः केवलं मदनशरपातैरेव, न त्वायासनिमित्तेनान्येन । नितम्बिनीनां समुचितरूप- चातुर्याणां युवतीनाम् । स्वनिमित्तं परिदेवितानि अनुरागचिन्ता विषादौत्सुक्यश- ङ्काहर्षादिभावप्रेरितानि प्रलापवचनामृतानि श्रोत्रपात्रेण पिबताम् । यूनां सफल- यौवनानाम् । समागमो नाम सुखान्तरायः सुखस्य विघ्नभूतः एवं प्रलापादिरेव सुखहेतुः तस्य निवारणात् सुखान्तरायभूत एव । अत एव नामेति कुत्म्यताप्र- तिपादनम् । एतदुक्तं भवति । समागमे सुखं विप्रयोगे दुःखमिति सामान्येन लो- कबुद्धिः । वस्तुतस्तथा न । तरुण्या आत्मनिर्वादश्चित्तलयः कान्तस्य सुखहेतुः । स आश्लेषपरिचुम्बनादिरूपे सङ्गमे तथा न प्रकाशते यथा प्रेमोन्मीलनमदनशर- पातरणरणिकाचापलहृदयार्द्रीभावगुणवर्णनविषयान्तरवै मुख्यादिप्रलापेषु । ईदृशस्य सुखस्य सङ्गमेन निरोधात् सुखान्तरायत्वमिति ॥ १० ॥ एवं यन्निमित्तोऽयमित्यादिना तदनुरागस्याविषयत्वं निरूप्य विकल्पगर्भे नायकवचनमाकर्ण्य तत्प्रतिक्षेपेण रतेः करावलम्बनं करोति – भो अलमित्यादिना । - १. 'ण' इति क-घ. पाठः २. 'चिन्तिदो त्ति' इनि क. पाठः. ३. 'अत्तो त्ति' इति ग. पाठः.