पृष्ठम्:तपतीसंवरणम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । नायिका--(क) हिअअं! । कहिं वा हिअअं| (स्मृत्वा) आ तेण च्चिअ सुउमारेण मुसिअं । भअवं कुसुमाउह! तुवं किंपि पहरिदुं आअदो सि । तुह सराणं ळक्खभूदं मम हिअअं सअळ- भुवणेक्कणाहस्स हत्थे पडिअं । जइ समत्थो सि तहिं एव्व गदुअ परक्कमेहि । राजा-[(सस्पृहं) यन्निमित्तोऽयमस्याश्चित्तविकारः स चेदत्र सन्नि- हितः, स्याज्जन्मिनां प्राग्रेसरः । कुतः -- (क) हृदय! | कुत्र वा हृदयम् | आतेनैव सुकुमारेण मुक्तिम् | भगवन् कुसुमा- युध ! त्वं किमपि प्रहर्तुमागतोऽसि । तत्र शराणां लक्ष्यभूतं मम हृदयं सकल- भुवनैकनाथस्य हस्ते पतितम् । यदि समर्थोऽसि तत्रैव गत्वा पराक्रमस्व । अथोत्तरोत्तरमसङ्गतप्रलानेन नाविकाया उन्मादपरकाष्ठा प्रकाश्यते- हिअअ इत्यादि । आ इति । क्व वा हृदयमिति निरूपणे विषयबोधेन तत्स्मृत्या आ इति स्मृतम् । तेनैव सुकुमारेण मुषितम् । तेनेति पूर्वमनुभूतेन । सुकुमारेणेति गुणान्तरोपलक्षणं, स्पर्शसुखानुसन्धानेन सुकुमारणेत्युक्तम् । एतद् हृदयमोषणे निमि- त्तम् । भगवन् ! कुसुमायुधेति । भगवन् बहुमानयोग्योऽसि । यतः कुसुमायुध ! कुसुमायुधैरेव विश्वजेता । किं प्रहर्तुमागतोऽसि मामिति शेषः । धनुःशरादिपरि- करपरिग्रहेण भवतः सन्नाहो ज्ञायते । तत्रासमीक्ष्यकारितया वीरत्वशैथिल्यं मा कृथा इति भवत्पक्षपातेन बोध्यसे । अन्यथा यथेष्टं करोतु किमेतेनास्माकमिति स्थातुं शक्यम् । मम हृदयं लक्षीकृत्य प्रहर्तुं तवाध्यवसाय: । तदत्र न सन्निहि- तम् । तर्हि तदन्विष्य ताडयामीति चेत् तदपि दुष्करम् । सकलभुवनैकनाथस्य हस्ते, न तु यस्य कस्यचिन्माण्डलिकस्य हस्ते । पतितं स्वहस्तगतवदतिविधेयम् । पतितमित्यनेन कदाचिदपि ततो न निवृत्तिः । अतो विरम । सर्वथा प्रारब्धं प्रति मम सामर्थ्यमिति चेत् तत्रैव गत्वा पराक्रमस्व | पराक्रमस्वेति साध्यसिद्धिर्भवे- दिति न निश्चयः । मम हृदयाहारिणि निजशक्तिप्रकटनेनानुकूल्यं सम्पादयसि चेत्, तव सामर्थ्यं विश्वसिमीत्यभिप्रायः एवं तस्याः प्रणयचापलनिरर्गलम् उन्मादसंवलितं प्रलापमाकर्ण्यात्मानं तद्विषयत्वेनाजानन् तत्प्रणयानमित्तं पुरुषं प्रशंसति- यन्निमित्त इत्यादि । अस्याः १. 'अ । (स्मृत्वा) कहिं वा हिअअं। आ' इति घ. पाठः २. 'स्याद् भवेज्ज' इति ग.पाठः. -