पृष्ठम्:तपतीसंवरणम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे - मेनका – (क) किं आळक्खिदह्नि इमाए । नायिका —— (ख) कहिँ मेणआ । Jo मेनका - (ग) सहि ! सङ्कप्पो खु तवस्सिणीए मं सदावेइ । - रम्भा - (घ) (सेर्ष्यम्) ईदिसे वि मअणसंभमे इमाए अहं ण सुम- रिआ । मेनका -- (ङ) सहि ! मा कुप्प | असण्णिहिदा तुवं एदस्सिं उद- न्ते । अहं किंपि अब्भन्तरा, तदो एव्वं आळविअं । (क) किमालक्षितारम्यनया । (ख) क्व मेनका । (ग) सखि! सङ्कल्पः खलु तपस्विन्या मां शब्दापयति । (च) ईदृशेऽपि मदनसम्भ्रमेऽनयाहं न स्मृता । (ङ) सखि! मा कुप्य, असन्निहिता त्वमेतस्मिन् उदन्ते, अहं किमप्यभ्यन्तरा, तत एवमालपितम् । आलक्षितास्म्यनयेति । शङ्कत आह्वाने ॥ क्व मेनकेति । पूर्वोक्तं भ्रमरूपमिति स्वयमेव साधयति ॥ सङ्कल्प इति । पूर्वे तिरोधानभङ्गशङ्कया आलक्षितास्मीत्युक्तिः । क्व मेन- केति व वनं श्रुत्वात्याः सङ्कल्प एव मामाह्वापयति । तपस्विन्या ऋजुबुद्ध्याः तस्यां वात्सल्येनोक्तिः । सङ्कल्प एवाह्वानस्य निमित्तम् ॥ इति श्रुत्वा सखीत्वे तुल्येऽपि मम बुद्ध्युपारोहो न जातः, अन्यथा ममा- प्याह्वानं कुर्यादितीर्ष्यया रम्भाया उक्तिः ईदृशेऽपीति । अतिपीडया सखीजन- सापेक्षत्वेऽपि अहं न स्मृता, (स्मृता) चेदाह्वानमपि भवेत् । तवैवाह्वानेन स्मरणं कल्प्यते । स्वस्थदशायां न स्मृतेति मम न खेदः । व्यसने स्मर्त्तु युक्तं, तन्न कृतमिति ॥ तस्या अनिष्टं मेनका परिहरति । एतस्मिन्नुदन्ते आरम्भात् प्रभृति त्वम- सन्निहिता | अहं किञ्चिदभ्यन्तरा | मय्यप्यतीव विस्रम्भं न करोति । कदाचि- न्मामप्यनुसरति । तत एवमुक्तं न त्वनास्थया । तत् सखीं प्रति कोपं मा कुरु इत्यनुसरणप्रकारः ॥