पृष्ठम्:तपतीसंवरणम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतसंवरणे विदूषकः-- (क) एसा देव्वेण उवणीदा दे तणअणामहेअरस अ- ग्गिणो अरणि त्ति समत्थेमि । (नेपथ्ये) सवनमुपगतं तृतीयमह्नः क्षपयत तीर्थजलेन किल्बिषाणि । त्वरयत करवीरपुष्पगन्धानहिमरुचेरुपनेतुमर्ध्यपूजाम् ॥ १२ ॥ (क) एषा देवेनोपनीता ते तनयनामधेयस्याग्नेररणिरिति समर्थये । भीरुः पलायनं करोमि । अतः कुसुमशरौघैः पुप्पतूणी पूरिते कुरु । किम्भूतैः । भृङ्गकल्माषपुङ्खैः भृङ्गैः सौरभानुसारिभिः कृष्णपुङ्खैः । अनेन पुष्पाणामपर्युषितत्वे शरीकरणयोग्यत्वं प्रकाश्यते । अहो तव शौर्येऽपि सौभाग्यं यत् पुष्पमयं सकलं विजयसाधनमिति कुसुमशरौधैः पुष्पतूणी इत्यनेन व्यज्यते । पूरिते कुरु । पञ्चषाणां शराणां प्रयोगेणैवालमिति बुद्धिं मा कृथाः । तूणौ शरेषु पूर्णेष्वेव निरर्गलं प्रयोक्तुं शक्यम् । अन्यथा शरान्वेषणेन प्रयोगस्य विलम्बे प्रहारो न शोभत इति च पूरिते कुर्वित्युक्तम् । इदानीं भवदभियोगस्याहं पात्रभूतोऽस्मि । एवं मदननियोगेन प्रे- यसीप्रेमसर्वस्वपात्रभूततया नायकस्य कृतार्थता व्यज्यते ॥ ११ ॥ एवं नायकप्रमोदस्य हस्तदानं करोति नर्मसचिवः - एषा दैवेनोपनीता, न त्वस्मत्पौरुषेण । अनेन विश्वास्यत्वं फलोत्पत्तिशेषत्वं च प्रकाशितम् । ते तनय- नामधेयस्याग्नेररणिः उत्पत्तिस्थानम् । सर्वसाध्यशेषतया तनयस्याग्नित्वारोपः । तच्छेषतया अरणित्वारोपः । अनेनास्माकमेतत्परिग्रहेण कामानुबद्धो धर्मः सिद्ध्ये- दित्ति नायकस्याभिप्रायोद्दीपनायोक्तिः ॥ एवं नायिकायाः श्रवणदर्शनाभ्यां नायकस्य दर्शनेन च समुल्लसितेऽभिलाषे सङ्कल्पगुणवर्णनादिभिरन्तरान्तरोन्मग्ननिमग्नैः शङ्कादिव्यभिचारिभिश्च परिपोषं गते नायकेनात्मविषयत्वेन निश्चिते नायिकया पदवतंसकवृत्तान्तेन किञ्चिदुन्नीते एकदिवसप्रयोज्यावसानेऽङ्कसमाप्तेश्चूलिकया कालं प्रकाशयति - सवनमित्या- दिना । अह्नः तृतीयं सवनमुपगतम् | सवनशब्देनात्र सवनोचितः कालांशो लक्ष्यते । तद्बोधने फलमाह – क्षपयतेति । किल्बिषाणि वाङ्मनः कायसम्बन्धीनि क्षपयत विनाशयत । अहिमरुचेः अर्ध्यपूजामुपनेतुम् अर्ध्यरूपिणीं पूजामुपनेतुम् । करवी रपुष्पगन्धान् करवीरपुष्पाणि गन्धविशेषांश्च । त्वरयत त्वरितं सम्पादयते- त्यर्थः ॥ १२ ॥ १. 'तक्केमि' इति क. पाठः,