पृष्ठम्:तपतीसंवरणम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । ८७ सख्यौ--- (ससम्भ्रमम्) (क) सहि ! उट्ठेहि उट्ठेहि । अदिक्कमइ सु- य्योपट्ठाणसमओ। नायिका- (आत्मगतम्) (ख) कह एरिसं' अवत्थन्तरं तादस्स दंसे- मि। कहं वा अणङ्गसरपीदसारेहिं अङ्गेहिं गन्तुं पारेमि । तह वि अळङ्घणीओ देवसमुदाआरो। (प्रकाशम् ) सहीओ! एव्वं करह्म । (सह सखीभ्यां निष्क्रान्ता) । राजा--- हा कष्टम् । अन्तर्हितेयमस्मन्मनोरथभूमिः । केन खल्वि- दानीमशनिदारुणमुद्घोषितम् । अथवा अवसानमेवैत- दस्मन्नयनभाग्यानाम् । (क) सखि! उत्तिष्टोत्तिष्ठ । अतिक्रामति सूर्योपस्थानसमयः । (ख) कथमीदृशमवस्थान्तरं तातस्य दर्शयामि । कथं वानङ्गशरपीतसारैरङ्गैर्गन्तुं पारयामि । तथाप्यलङ्घनीयो देवसमुदाचारः । सख्यौ ! एवं कुर्मः । अनेन वचनेन सन्ध्यासमयनिश्चयान्नायिकाया गमनार्थ सखीवचनं सखीत्यादि । सम्भ्रमेण पुनःपुनः कथनम् । तस्य हेतुः अतिक्रामति सूर्योपस्थान- समय इति ॥ एतद्वचनमाकर्ण्य विनयदेहसादाभ्यां निरूपयति - ईदृशमित्यादि । ईदृशम् अश्रुवैवर्ण्यादिदूषितं दुर्विनयद्योतकम् । कथं तातस्य दर्शयामीत्यनौचित्यशङ्का । अनङ्गशरपीतसारैः मदनशरग्रस्तशक्तिभिरङ्गैः कथं गन्तुं शक्नोमि च । पादयो- र्गमने न शक्तिः । हस्तादीनामपि तदनुगुणमात्मवहने न शक्तिरित्यङ्गैरित्युक्तम् । तर्हि न गन्तव्यम् । तथापीति । वैषम्यं सोढ्वापीत्यर्थः । देवसमुदाचार इति । अने- नाकरणे प्रत्यवायः सूचितः ॥ एवं स्वयं निरूप्य पुनः सखीवचनमनूद्य तस्या निर्गताया झटिति विषण्णो नायकः सानुतापमाह- केन खल्विति । इदानीं तृषितयोर्नयनयोरमृतपा- नस्य मध्ये | अशनिदारुणम् अशनिवज्झटिति तापकरम् | वचनमुच्चैर्भाषितम् ॥ - १. 'सं अत्तणो अ' इति क-ग. पाठः. २. 'न्ता नायिका) ' इति क-ख. पाठ:. ३. 'नेदा' इति ख. पाठः ४. 'निपातदा' इति घ-पाठः, ५. 'मेवास्म' इति क. पाठः, 'मेत' इति ग. पाठः.