पृष्ठम्:तपतीसंवरणम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे विदूषकः-- (क) एत्थ अदिणिअडे तवोवणे इसीहि उग्घोसिअ । राज--- (विलोक्य) सखे ! अवसित एवायमरुणसारथेर्दिवसदीक्षा- धिकारः । कुतः अरुणमणिनिकाशैरभ्रसोपानमार्गै- रवतरति दिनश्रीरम्बरादम्बुराशिम् । मधुपरिमलवाही मलिकामञ्जरीणां विधुरयति नभस्वान् पद्मिनीचक्रवाकीम् ॥ १३ ॥ सखे ! किमतः परं करणीयम् । (क) अत्रातिनिकटे तपोवने ऋषिभिरुद्घोषितम् । ८८ 00 केनेत्यस्योत्तरमाह - अतिनिकट इति । अतिनिकटत्वेन झटिति श्रवणयो- ग्यत्वम् । ऋषिभिरिति । तेषां कर्मैकपरत्वात् तैरुद्घोषितमिति सम्भावयामि ॥ अथ कालं निरीक्षणेन निश्चित्याह- सखे ! इत्यादि । अवसित एव परिस- माप्त एव । दिवसदीक्षाधिकारः दिवसदीक्षा दिवससम्बन्धिनी दीक्षा दिवसस्य नाडिकामुहूर्त्तादिकालावयवक्रमेण रमापनैकपरत्वं स एवाधिकारः स्वस्य नियत- व्यापारः अवसित एव । अवधृतमर्थं कार्यमुखेन स्फुटयति – कुत इत्यादिना । दिनश्रीः दिवसशोभा | तरुणीत्यर्थादारोपः । अभ्रसोपानमार्गै अम्रैरेव सोपानमा- र्गैरिति शाब्द आरोपः | अभ्राणां विभागेनोपर्यधोभागस्थित्या सोपानत्वारोपोऽ- वतरणसाधनतया । अरुणमणिनिकाशैः अरुणमणिः माणिक्यादिः तत्समानैरित्य- नेनाभ्राणां सान्ध्यमारुण्यं प्रकाशितम् । दिनपतेरस्तमये दिनशोभा सर्वदिगन्त- व्याप्ता प्रतिनिवृत्य दिनपतिमार्गानुसारेण सङ्कोचमेत्याम्बुराशिमवतरति । अथवा दिनाधिष्ठात्री लक्ष्मीः दिनावसाने अम्बुराशिमवतरति । 'तथा प्रदोषेषु च सागर- स्थे'त्याप्तवचनात् सन्ध्यायां लक्ष्म्याः समुद्रे वसतिः सिद्धा, तदुच्यते । अन्यच्चा- स्तमयद्योतकं दृश्यते । नभस्वान् मल्लिकामञ्जरीणां तत्कालविकस्वराणां मधुमिश्र- परिमलवहनशीलः । अनेन सान्ध्यत्वं स्फुटीकृतम् । अत एव पद्मिनीचक्रवाकीं विधुरयति पद्मिनीगतां चक्रवाक विरहपीडितां करोति । सान्ध्यसमीरणसंस्पर्शेन रात्र्यारम्भं निश्चित्य झटिति भर्त्तृवियोगदुःखमनुभवति चक्रवाकीत्येवमुक्तिः । १. 'दं ति । ' इति क-ग. पाठ:. २. 'जा स' इति क. पाठः,