पृष्ठम्:तपतीसंवरणम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । M विदूषकः - (क) अब्भत्थिदो अहं रक्खसभीरुणा कुळवइणा, तुह वअस्सो एत्थ सण्णिहिदो कादव्वो त्ति । ता तहिं एव्व गच्छह्म | राजा - बाढम् । प्रथमः कल्पः । (इति निष्क्रान्ताः सर्वे) इति द्वितीयोऽङ्कः । (क) अभ्यर्थितोऽहं राक्षसभीरुणा कुलपतिना, तव वयस्योऽत्र सन्निहितः कर्तव्य इति । तत् तत्रैव गच्छावः । - एवमस्तमयं निश्चित्यानन्तरकर्तव्यं तं पृच्छति - सखे ! इति । त्वद्वचनानुसारेणा- हमियतीं भूमिमागतः । अस्मत्समीहितमपि सिद्धप्रायम् । अतः परं करणीयमपि त्वन्नियोगेनानुष्ठास्यामि ॥ इति प्रश्नस्योत्तरमाह - अभ्यर्थितोऽहं कुलपतिना। राक्षमभीरुणेति हेतुः । तव वयस्येनात्र सन्निहितेन भवितव्यं राक्षसभयशननार्थमिति सिद्धम् । तत् तत्रैव गच्छावः ॥ - इति तद्वचनमनुवदति – बाढमिति पूर्णानुवादे । तदेव स्फुटयति- प्रथमः कल्प इति | मुख्यपक्ष इत्यर्थः । रक्षणमस्माकं कुलधर्मः । तत् परिपन्थिनिग्रहेण मुनीनां रक्षणं कर्तव्यमेवेत्यभिप्रायः ॥ इति द्वितीयोऽङ्कः ।