पृष्ठम्:तपतीसंवरणम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तृतीयोऽङ्कः । (ततः प्रविशति होमसाधनहस्तस्तापसकुमारः) तापसकुमारैः– (सविस्मयम् ) अहोतुखल्ववाङ्मनसगोचरमद्भु- तानुभावस्य महाराजसंवरणस्य विक्रमविलसितम् । तथा ह्यनिर्देश्यैराधिभिरतिक्षामशरीरस्यापि तस्य- निर्भिद्यन्तां त्रियामाचरबलपतयः पर्वताकारकायाः कामं शाताग्रशल्यस्फुरदनलशिखाभासुरैर्भल्लुजालैः । आसीदाश्चर्यमेतद् यदुत शरमरुद्वेगविद्रावितास्ते पर्यस्ताः क्वेति विद्मो न हि वयमधुनाप्याश्रमाद् बाह्यभूमौ ॥ १ ॥ - अथ तृतीयाङ्के नायकयोरयोगविप्रलम्भे वर्णनीये अन्तरा प्रयुक्तेन वि- ष्कम्भकेण सूचनीयो राक्षसवधादिकोऽर्थः सूच्यते । तत्राहार्यस्याप्यभिनयत्वेन त द्विशेषेण होमसाधनहस्तत्वेनैकोंऽशः सूचितः । तथा प्रविष्टो मुनिकुमार उक्ति- भङ्गया सूच्यार्थं सूचयति - अहोतुखल्वित्यादि । महाराजसंवरणस्य विक्रम- विलसितम्, अवाङ्मनसगोचरम् । विक्रमस्य विलसित प्रसरणम् । वाङ्मनसयो- र्गोचरोंऽशोऽपि न विद्यतेऽस्मिन्निति विग्रहः । अन्यथा गोचर इति भवेत् । विक्रम- प्रसरणस्यैकदेशोऽपि वक्तुं निरूपयितुं च न शक्यः, कि पुनः सकलमित्यर्थः । अद्भुतानुभावस्येति हेतुः । अनुभावः प्रभावः । स विक्रमस्य कारणम् । तद्विलसितं निरूप्य अहोतुखल्वित्याश्चर्यबुद्धिः । तदेवाश्चर्यप्रयोजकम् इदानीन्तनेन विशे- षेण समर्थ्यत इत्याह - तथा हीति । दृष्टमिति शेषः । अनिर्देश्यैः गौरवेण वकुमशक्यैः, अस्माकं तन्निर्देशे वैदेशिकत्वमिति वा । आधिभिः अतिक्षाम- शरीरस्यापि “ मनःशरीरयोस्तापः परस्परमनुव्रजेदि "त्युक्त्या आधीनां शररीरक्षाम- ताहेतुत्वम् । बहुवचनेन आधिहेतूनां बाहुल्यं प्रकाशितम् । अतिक्षामतया आ- धिगौरवं कल्पयितुं शक्यम् । अपीति विरोधः । तस्येति विरोधपरिहारः विजिगीषु- तया क्लेशसहिप्णोः । भल्लजालैः त्रियामाचरबलपतयो निर्भिद्यन्ताम् । त्रियामाचराः १. 'रः अ ' इति घ. पाठः,