पृष्ठम्:तपतीसंवरणम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । आदिष्टोऽस्मि गुरुणा, यथा 'वत्स! कौण्डिन्य! संवरण- शरपरामृष्टानां पिशिताशिनां परिग्रहास्तं प्रति प्रकाशं प्रहर्तुमक्षमा मन्ये मायाः प्रयुञ्जीरन् । अतस्तत्प्रशमन- कराय कर्मणे कुशपूलीर्बिल्वसमिधः सितसरोरुहाणि च समुपाहरे'ति । उपयुक्तप्रायहोमसाधनत्वादाश्रमोपशल्या- नां दूरादानीतोऽयं भारः । अतः खल्वतिक्रान्तमहः । प्र- क्रान्तः प्रदोषसमयः । (समन्तादवलोक्य) अहो पतत्रिणाम- स्वतो दुर्जयाः, तेषां बलपतयः सेनापतयः । पर्वताकारकाया इति भेदवैषम्यहेतुः । शाताग्रशल्यैः स्फुरदनलशिखाभापुरैश्चेति विग्रहः । अन्यथा शाताग्रशल्यत्वं नि- र्भेदानुगुणं गुणीभवेत् । भल्लः स्नुहिदलाकारफलः स्थूलकायनिर्भेदनानुगुणः, त- त्समूहैः निर्भिद्यन्ताम् । तत् प्रयोक्तृशक्त्या साधनपौष्कल्येन च घटताम् । तदनि(च्छ)याप्यनुमोदामह इति काममित्युक्तम् । नैतदाश्चर्यम् उक्तादेव हेतोः । किं पुनस्तदित्याह – आसीदाश्चर्यमिति । एतद् वक्ष्यमाणम् । शरमरुद्वेगेविद्रा- विताः, न स्वयं, निरवशेषं भिद्यमानत्वात् । ते आश्रमाद् बाह्यभूमाविति निश्चयः । तत्र व्याप्ते देशे कुत्र पर्यस्ताः निरस्ता इति । वयम् अत्रस्थाः । अधुना दिनान्ते । अन्विच्छन्तोऽपि न विद्मः शत्रवो हन्यन्ताम्, आश्रम- दूषणं परिहर्तुं महाकायाः कुत्र निरस्ता इति न विद्म इत्याश्चर्यम् ॥ १ ॥ एवं राक्षसवधं राज्ञो विरहकार्श्यं च सूचयित्वा स्वप्रवृत्तिमाह आदिष्ट इत्यादिना । वत्सेत्यादि तदादेशप्रकारः । संवरणेत्यादिनोपरितनो मोहिनिका- द्युपक्रमः सूचितः । अतिक्रान्तमहरित्येवालम् । प्रक्रान्तः प्रदोषसमय इति प्रदो- षवर्णनोपक्रमः | तपस्विनां दृश्येषु दृष्टिपातो वस्तुविचाराय । अतः समन्तादव- लोकनेन सिद्धमाह- अहो इति । मायाप्रभाव इति शेषः । पतत्रिणामपीति । तिर- श्चामपीति विवक्षितं, तद्विशेषाणां तद्दर्शनेन पतत्रिणाभित्युक्तम् । अतिकृपणः अति- तुच्छः । संसारधर्मः एषणापारवश्यादिः । केवलं जीवनमात्रापेक्षिणां, न त्रिवर्गाद्य- पेक्षिणामित्यपिशब्दार्थः। दृश्यत इति शेषः । तद्व्याप्तिं दर्शनपूर्वकं समर्थयति - • १. 'मक' इति खन्ग, पाठः, 'मनाय' इति क. पाठः. -