पृष्ठम्:तपतीसंवरणम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ तपतीसंवरणे प्यतिकृपणः संसारधर्मः । तथा ह्यमुष्मिन् सरसि—- अर्द्धाभ्युद्गतपत्रकं परिलुठत् पत्रेषु पङ्केरुहां प्रायः पोतकजातकं कुररिकाः पक्षैः समूहन्त्यमू: । अन्तःसुप्तमधुव्रतां शिशयिषुः शीतांशुसङ्कोचितां भृङ्गी दत्तद्लार्गलां कमलिनीं पर्येति पर्युत्सुका ॥ २ ॥ (परिक्रामन्नग्रतो विलोक्य) अये असौ राजर्षिः सवयस्यः संरम्भदूषितमुखश्रीरित एवाभिवर्त्तते । तन्नायमाशीर्वादा- वसरः । साधयामि तावदाश्रमपदम् । (निष्कान्तः) विष्कम्भकः । तथा हीत्यादि । अस्मिन् सरसि । कुररिकाः पक्षिणीविशेषाः । पोतकजातकं पक्षैः समूहन्ति कवलीकृत्य पुञ्जीकुर्वन्ति बाहुल्येन । पङ्केरुहां पत्रेषु परितो लुठत् परि- वर्तमानम् । यतः अर्धाभ्युद्गतपत्रकं पत्राणामर्धोद्गत्योड्डयनासमर्थमित्यर्थः । तत्र जलपतने मत्स्यादिग्रहणशङ्कया समूहीकरणम् । अत्र पुत्रवात्सल्यं संसारधर्मः । अन्यत्र भृङ्गी कमलिनीं कमलम् । अत्र कमलवाची कमलिनीशब्द: *'नलिनी पद्मिनीत्याद्याः पद्मस्तम्बे सरस्यपी' ति वचनात् । पर्येति परित एति, न प्रवि- शति । यतः शीतांशुसङ्कोचितां शीतांशुना दिनावसाने सङ्कोचं नीताम् । अत एव दत्तदलार्गलां कृतदलार्गलबन्धाम् । अनेन शयनागारत्वं गम्यते । त (कं? किमर्थं) पर्यटनं, पर्युत्सुका, बन्धेऽप्यौत्सुक्येन परिभ्रमत्येव । किमर्थमौ- त्सुक्यं, शिशयिषुः शयनापेक्षिणी । तर्ह्यन्यत्र शक्यं तद्, अत्राह -- अन्तः- सुप्तमधुव्रतां निजकान्तस्य पूर्वं प्रविष्टस्यान्तः स्वापस्तत्र निर्बन्धहेतुः । शिश- यिषुरिति भोगेच्छाकथनानौचित्येनोक्तिरिति पतिवात्सल्यं संसारधर्मः ॥ २ ॥ एवं सन्ध्यां वर्णयित्वा राज्ञोऽवस्थाविशिष्टं प्रवेशं सूचयति — अये इत्यादि । संरम्भेण दूषिता अप्रसन्नीकृता मुखकान्तिर्यस्य सः सवयस्य इत एवाभिवर्तते । १. 'ते । नाय' इति घ. पाठ.. - • बिसिनीपद्मिनीत्याद्याः पद्मस्तम्बे सरस्यपि.' इति याद्रवः