पृष्ठम्:तपतीसंवरणम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । (ततः प्रविशति राजा विदुषकश्च) राजा - (ससंरम्भम् ) आ दुरात्मन् ! अङ्गजन्मजनङ्गम! मत्वा मामस्त्रजालक्षपितसुरगणप्रसनीकं तृणाय श्लाघां मोघावसानामतनुमतनुतावर्मितस्त्वं तनोषि । कच्चिन्नालं त्वदीया हरनयनशिखिप्लोषसंक्षोभलध्वीः कामं कन्दर्प! शक्तर्मुषितमुनिघृतीर्मार्गितुं मार्गणा मे ॥ ३ ॥ तन्नायमाशविदावसरो व्याक्षिप्तचित्तत्वात् सन्ध्यासन्निधानाच्च । एवं सवयस्यस्य कुपितस्य राज्ञः प्रवेशं सूचयित्वा निष्क्रान्तः || - अथ नायको नायिकां प्रति नवोदयमनुरागमवलम्बमानोऽयोगविप्रलम्भो- चितचिन्तानिश्वासजागरक्षामतासन्तापविवशीकृतः चित्तविभ्रमरूपमुन्म/दमवलम्ब- मानः ससंरम्भं मदनमधिक्षिपति- - आ इत्यादि । दुरात्मन् ! अनुचितप्रवृत्त्या तव दौरात्म्यमवगम्यते । अत एव मम कोपः । अङ्गजन्मजनङ्गम ! अशुद्धा (त् पा) पादङ्गाज्जननात् जनङ्गमविशेष एव त्वम् । जनं जननमात्रं गच्छति, न कमपि संस्कारमिति जनङ्गमश्चण्डालः | अनुचिताचरणेनाशुद्धजन्मतया संस्कारहीनतया च चण्डालविशेष एव त्वमित्यधिक्षेपातिशयः । अनुचिताचरणं प्रकाशयति-- मत्वेत्यादि । मां तृणाय मत्वा अतनुं श्लावां त्वं तनोषि | अहो मौढ्यस्यातिशयः । अस्त्रजालैः क्षपिताः हिंसिताः सुरगणप्रति मटाः तैरवध्या येन तादृशं मां तृणवद - नादृत्येति “प्रकृष्टकुत्सितग्रहणं कर्तव्यम्" इत्यस्य प्रायिकत्वान्नञोऽभावः । मम नेयमात्मस्तुतिः । मूढं भवन्तं बोधयितुमेवमुक्तम् । एवं पर (र?) निरसनभेव न । श्लाघाम् आत्मन इति शेषः । तत्राप्यतनुम् “आत्मप्रशंसा मरणं परनिन्दा च" इति मुनिवचनमपि त्वया न श्रुतम् । अतनुतावर्मितः अशरीरतयाच्छादित- स्वरूपः । अतनुता मम रक्षा, तत् किं मां प्रति क्रियत इति तवाभिमानः । मोघा- वसानाम् अवस्तुपर्यवसायिनीम् | अङ्गस्याभावे केन मोघत्वमिति चेत्, त्वदीयाः शक्तीः अंशेन तत्र तत्र निलीनाः, न त्वेकगौरवेण समुदिताः । यतो हरनयनशि- खिप्लोषसम्भ्रमेण लध्वीः निर्वाणाङ्कारप्रायाः । कामं पर्याप्तं यावत्कलोदयम् । मा- र्गितुं मम मार्गणाः कच्चिन्नालं, शक्ता एव । देहं बाधितुमेव शक्तिः, स तु मन नास्ति, अतः किं मां प्रति करोषीति बुद्धिं मा कृथाः । मुक्तिमुनिवृतीः, न तु वि क्रमानुगुणाः । अत एव दण्ड्याः || ३ || एवं मदनमधिक्षिप्य पुनः प्रत्याकलय्य