पृष्ठम्:तपतीसंवरणम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( पुनः प्रत्याकलय्य) हन्त धिङ् मामनवस्थितवचसम् । सकृ- दभ्यनुज्ञातपराक्रमोऽयं मयि तपस्वी । तदनुनयामि ताव- देनम् । भगवन् ! मृष्यतामयमपराधः । एतावत्तु भवन्त- मभ्यर्थये-- अभिनवसहकारैः षट्पदालीढसारै- रलमलमतिलोलैक्षिणैर्मारुतैर्वा । यदि कुवलयनीलैरद्य शक्नोषि तस्याः -- प्रहर कुसुमधन्वन्नायताक्ष्याः कटाक्षैः ॥ ४ ॥ वदति । भ्रमकोट्यन्तरालम्बनमेवात्र प्रत्याकलनं न तत्त्वनिरूपणम् । हन्तेति विषादे । धिङ् मामिति । अहमेव कुत्सनीयः । अनवस्थितवचसम् अस्थि- रवचसं पूर्वापरविरुद्धभाषिणमित्यर्थः । तदेव स्फुटयति — सकृदिति । एकवारं मद्विषये अनुज्ञातपराक्रमः 'तुहिनगिरी' (अङ्क २ श्लो. ११) त्यादिना, तद्वि- रुद्धमिदानीं भाषणम् | तपस्वी ऋजुधीः । मदुक्तिं प्रमाणीकृत्य प्रवृत्तवानेव । इदं कायकरं न वेति न निरूपितम् । तत्रैवं न कर्तव्यमित्येव वक्तुं युक्तं, नाघिक्षेप इति पूर्वापरविरोधः । तद् ममापराधित्वादनुनयामि । तावत् प्रथमम् । पश्चात् साध्यं प्रार्थयामि । भगवन् ! समग्रैश्वर्य सम्पन्न ! विश्वोदयस्य त्वदधीनत्वात् त्वगौरवमहं जानामि । तदपराधः क्षम्यताम | मर्षणे परिभवे च त्वादृशामेव सामर्थ्यम् । अय- मिति । इतः पूर्वे मया नापराधः कृतः । अयमेक एव । अतः क्षन्तव्यम् । किं पुनरपेक्षितमित्यत्राह-एतावत्तु, नातीव प्रमेयविरोधः । अभ्यर्थये, न प्रेषयामि । भवन्तं पूज्यतमम् । अभिनवेत्यादि । “पुष्पतूणी कुसुमशरैः पूरिते कुरु" इत्येव मयोक्तम् । चूतबाणत्वात् त्वया तैरेव प्रहारः कृतः । तैरलमलम् । अभिनवत्व- मेव सहकारकुसुमानां त्वया निरूपितं, न निस्सारत्वम् । तेषां न कार्यकरत्वं, षट्- पदालीढसारत्वानिरवशेषमा स्वादितमकरन्दत्वान्निस्सारत्वम् । अतः अलमलम् अ- तःपरं न सकृदपि प्रयोक्तव्यम् । दक्षिणैः मालयैर्मारुतैश्वालं, तेषां दोषान्तरं नि- मित्तम्, अतिलोलैः स्पृष्ट्वा धावाद्भिरेव, न खलु यावत् साध्यं स्थितिपरैः । तर्हि पूर्व- मेव किं न निरूपितमिति चेत्, तत्सन्निघावेभिरेवालमिति बुद्धिः । अतो न नि रासः कृतः । स्वयापि तदेवाजीकृतम् | तहींदानीं किं क्रियतामिति चेत्, अद्य