पृष्ठम्:तपतीसंवरणम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । विदूषकः- (सनिर्वेदमात्मगतम्) (क) अहो अच्चाहिदं। एसो असङ्गदाणि पळविदुं पवुत्तो । अहं खु एदस्स अणङ्गमए दुव्वेज्जो विअ उवट्ठिएस महावाहिसु उवक्कमं अआणन्तो अदिमत्तं सम्भमामि । उम्मूळिदो णेण णअरगमणवुत्तन्तो, जेण सअळं आणुअत्तं विसज्जिअं । एत्थ अडवीअं एआई अहं किं करिस्सं । होदु एव्वं दाव भणिस्सं । (प्रकाशम् ) भो वअस्स! अअहावुरो दे वअणवदिअरो कादरेइ मे हिअ- अं । ता धीरो होहि । (क) अहो अत्याहितम् । एषोऽसङ्गतानि प्रलपितुं प्रवृत्तः । अहं खल्वेतस्यान- ङ्गामये दुर्वैद्य इवोपस्थितेषु महाव्याधिषूपक्रममजानन् अतिमात्रं सम्भ्रमा- मि । उन्मूलितोऽनेन नगरगमनवृत्तान्तः, येन सकलमानुयात्रं विसर्जेिं- तम् । अत्राटव्यामेकाक्यहं किं करिष्यामि । भवत्वेवं तावद् भणिष्यामि। भो वयस्य ! अयथापुरस्ते वचनव्यतिकरः कातरयति मे हृदयम् । तद्वीरो भव । शक्नोषि यदि तस्याः कटाक्षैः प्रहर । अद्य प्रहारे शक्तश्चेत् तत् प्रार्थये कालक्षे- पमसहमानः । अद्य प्रहारं प्रति यदि शक्नोषत्युिक्तं, न तु सर्वथा तत्र कोऽपि कल्पः । यतः कुसुमधन्वन्! मृदुना शरासनेन सर्वधानुष्कातिशायिन् ! कुवलय- र्नीलैः, न तु कुवलयत्वारोपं सहमानैः । तेषां विलासशून्यत्वात् । भवतः कुसुम- शरत्वमपि कथञ्चित् साम्यद्वारा सिद्धम् । विशेषत आयताक्ष्याः अक्षिकोणम्यैव कटाक्षत्वम् अतस्तदैर्घ्यमपि कटाक्षाणां शरीकरणोपयोगि। एवं कटाक्षैः प्रहर भव- त्कारुण्यमेव पूर्वं मयि मनोवृत्तेर्निमित्तम् । इदानीं साम्मुख्यं नेतुं प्रार्थये ॥ ४ ॥ - एवं तस्योन्मादतरलं वचनमाकर्ण्य नर्मसचिवश्चिन्तयति- अहो इत्यादि - भ्रमस्यातिशयं निरूप्य विषादः । अत्याहितम् अतिक्रूरम् । सार्वभौमस्यातिविदेश- गमनम् अमात्यादिराहित्यं मदनोन्मादवैवश्यमिति सर्वमतिक्रूरमेव प्रवृत्तमिति ना- स्यावसानं दृश्यते । दुर्वैद्यः अशास्त्रज्ञः केवलचिकित्साप्रवृत्तः । महाव्याधिषु ज्वर- कुष्ठमगन्दरादिषु । उपक्रम्यत इत्युपक्रमः कर्तव्यम् अन्यत्र चिकित्सा । आनुयात्रं परिजनः । वचनव्यतिकरः वाक्प्रवृत्तिः, परस्परसङ्घटनं वा । अधीरतास्य निमि- चमिति प्रकल्प्य धीरो भवेति प्रार्थनम् ॥ १. 'सो दाणिं अ' इति ख. पाठः. २. 'स्सं । ए' इति क. पाठ..