पृष्ठम्:तपतीसंवरणम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९१. तपतीसंवरणे राजा -- (आत्मानं संस्तभ्य) सखे ! सत्यमाह भवान् । वचांसि नाम मनस्कारमूलानि । तस्मिन्निर्मूलमुन्मूलिते तथा तनुमध्य- या कथमनाकुलानि प्रवर्त्तेरन् । A विदूषकः -- (सविषादम्) (क) एव्वं गदे किं दाणि मे सरणं । राजा - (दीर्घ निश्वस्य) किमन्यत् । तदङ्गसंसर्गश्लाघनीयः स एव शुचिमणिमण्डपः शरणम् । आदिश्यताममुष्य पन्थाः । (क) एवं गते किमिदानीं मे शरणम् । सखे ! इति । मद्वैषम्यसर्वस्ववेदी कथमेवं वदसि । वचांसि नामेति । व- चांसि मनःकारमूलानि । नामेति प्रसिद्धौ । प्रसिद्धोऽयमर्थः शास्त्रादिषु । मन- रकारो विमर्शः । स एव मध्यमायाः शक्तेः प्रवृत्तिः । अनेन शब्देनायमर्थो व क्तव्य इति प्रथमं निरूप्य बुद्धौ पौर्वापर्यपरिकल्पनं कर्तव्यम् । तेन क्रमेण वैख- रीशक्त्या स्थानादिविशिष्टवर्णादिरूपेण शब्दस्य प्रसरः । तत्र बुद्धिसंस्था मध्यमा शक्तिः । तया प्रयोगव्यवस्थाकल्पनम् । स एव मनस्कारः । तस्मिन्निर्मूलमुन्मू- लिते निरवशेषमपह्रते | मनग्यपहृतं विमर्शापहरणमेव फलितम् । तया तनुमध्य- येति । मदुक्ति बिना त्वयापि दृष्टं तद्रूपचातुर्यम् । तनुमध्ययेति नात्रापहरणेऽनौ- चित्यामति प्रकाश्यते । एवं स्थिते कथमनाकुलानि प्रवर्तेरन् उन्मत्तप्रलपितवद सम्बन्धत्वमेवैषां दृष्टम् || । C एवं गत इत्यादि । भवत्येवं विषमामवस्थां प्राप्ते किमिदानीं मे शरणम् । मे इति भवतः पारवश्येन मयैकेन निरूपणीयम् । अतः किं शरणं व्यसनोपश- माय कमाश्रय इति तस्य विचारः ॥ एवं प्रणयिनीवियोगे किमिदानीं शरणं कालविनोदनोपाय इति तेन पृष्टं मत्वा कथयति – किमन्यदिति । तदङ्गसंसर्गश्लाघनीयः तदङ्गसंसर्गस्य विधिवै- परांत्येनालाभे आसनशयनादिषु तत्तनुलतासंश्लेषणातिनुभगः । स एव पूर्वमस्माभि- स्तदाश्रयत्वेन दृष्टः । शुचिमणिर्धवलमणिः स्फटिकमण्डपः शरणम् । विरहवि- नोदनायेति शेषः । तदादिश्यतामिति । नान्यत् किञ्चिदत्र वक्तव्यमित्यौत्सुक्या- नुबद्धा त्वरा सूचिता ॥ १. 'खे ! व' इति क ख. पाठः