पृष्ठम्:तपतीसंवरणम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । विदूषकः -- (सप्रत्याशम्) (क) एटु एदु भवं' । (उभौ परिक्रामतः ) विदूषकः - (ख) एसो सो । पविसह्म । ( उभौ प्रवेशं नाटयतः ) राजा --- (सर्वतो दत्तदृष्टिः सविषादम्) अहो अस्थिरता वस्तुसम्पत्ती- नाम् । पश्य--- विहीनं पार्वत्या भसितसितमङ्गं पशुपते- विना भागीरथ्या तुहिनधवलं धूर्जटिगुरुम् । ९७ (क) एत्वेतु भवान् । (ख) एष सः । प्रविशावः | अथ तेनोपदिश्यमानमार्गः स्फटिकमण्डपं प्रविश्य प्रियतमाधिष्ठितत्वेन तस्य निरन्तरानुसन्धानादिदानीमपि तथैव द्रष्टुं शक्यमिति कामिजनसुलभामाशां वहन् औत्सुक्येन समन्तादवलोक्य केवलस्य मण्डपस्य दर्शनेन विषण्णो वस्तूना- मुत्कर्षस्य सामान्येनानित्यत्वं प्र (ति) विशेषप्रतिपादनायाह - अहो इत्यादि । अहो आश्चर्यम् । अनिष्टस्याप्युत्कर्षे आश्चर्यजनकत्वम् । वस्तूनां सम्पत्तिः समृद्धिः गुणवैशिष्ट्यादिरूपा । वस्तूनां बहुत्वात् तद्वारा सम्पत्तिबहुत्वम् । एकस्य वस्तुनो यादृशी शोभा रम्यता वा, तस्यैवोत्तरक्षणे सा विपर्यस्ता दृश्यते । इदमिदानीम- स्माभिरनुभूयते । शुचिमणिगृहमधुना शोच्यं मन्ये । शुचिमणिना स्फटिक- मणिना सङ्घटितं न तु केवलशिलानिर्मितम् । तदधुना शोच्यं मन्ये जानामि । अधुनेत्यनेन पूर्वमन्यथाज्ञानस्यापि ममैव कर्तृत्वमिति प्रकाशितम् । शोच्यमित्य- नेन तत्कारणं मन्दशोभत्वं लक्ष्यते । तत्र हेतुः – तया प्राणसमया शून्यमिति । शून्यं विरहितम् । घटशून्यं भूतलमितिवत् । प्राणसमयेति । एवंसम्बन्धस्य वस्तुनो निजसम्बन्धेन सौभाग्यसम्पादनसामर्थ्ये निरूप्यमाणे मम प्राणसमेति निश्चयो युक्त एवेति व्यज्यते । एवं मुख्यस्यापि वस्तुनो विशिष्टवस्त्वन्तरविरहे मन्दशोभत्वे उपमानस्य न यत्नसाध्यत्वमिति बहूपमानपरिग्रहः । पशुपतेः अङ्गमिति । पशुपतिः १. 'वं । (प) ' इति क-ख. पाठः. २. 'ह्म । राजा प्रवेश नाटयन् सर्व ' इति ख. पाठ:, 'ह्म । राजा 'प्रवेशं रूपयित्वा सर्व' इति घ. पाठः. ३. ‘दृष्टिः) अ’ इति घ. पाठः,