पृष्ठम्:तपतीसंवरणम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ तपतीसंवरणे श्रिया दुग्धाम्भोघ्रिं विगतमिव च प्राणसमया तया शून्यं मन्ये शुचिमणिगृहं शोच्यमधुना ॥ ५ ॥ विदूषकः --- (क) एसो ताए अहिठ्ठिदपुरुवो दिव्वपरिमळुग्गारी तह सहधम्मआरीहि फुळ्ळन्धएहि अहिळसिज्जन्तो अअं पदेसो । एत्थ उपविसिअ विणोदेहि अत्ताणं । (क) एष तयाधिष्ठितपूर्वो दिव्यपरिमलोद्गारी तब सहधर्मचारिभिः फुलुन्धयै- रभिलष्यमाणोऽयं प्रदेशः । अत्रोपविश्य विनोदयात्मानम् । , संसारपाशवद्धानां मोचकः परमशिवः तस्य निरवयवस्य सच्चिदानन्दरूपस्य नित्यसमवेतनिरतिशयशक्तिविश्लेषो न घटते, कथं पुनर्मन्दशोभत्वं, विश्वानुग्रहाय लीलया परिगृहीतविग्रहस्य तादृश्या शक्त्या विश्लेषोऽपि घटतामिति पार्वत्या विहीनं पशुपतेरङ्गमित्युक्तम् । भसितसितमिति उपमेये शुचिशब्देन निर्दिष्टस्य धाव- ल्यस्य व्याप्त्यर्थम्, तुहिनधवलमित्यपि । तथा भागीरथ्या विना स्वर्लोकगमनाद्वा भगीरथनयनाद्वा विनाभावः । धूर्जटिगुरुमित्यनेन स्वतो गौरवं प्रकाशितम् । श्रिया विगतं दुग्धाम्भोधिमित्यत्रापि दुग्धपदेनैव धावल्यप्रतीतिरिति पृथङ् नोक्तम् । अत्र त्रिविधोपमानपरिग्रहेण नायिकायाः सकलवनिताचूडामणित्वं पावनत्वं निरति- शयसौन्दर्यास्पदत्वं च क्रमेण प्रकाश्यते । इवशब्दस्य सर्वोपमानसाधारणत्वं च- शब्देन द्योतितम् ॥ ५ ॥ - एवं तस्य विषादगर्भं वचनमाकर्ण्याश्वासनाय प्रियतमाधिष्ठितं प्रदेशं निर्दिशति - एष इत्यादि । तयाधिष्ठितपूर्वमित्यनेन तदलाभे तत्सम्बन्धेनास्याप्या- श्वासकरत्वमिति सूचितं ज्ञायते । दिव्यपरिमलोद्गारी दिव्यम् अमानुषं माल्याङ्गरा- गादिजनितं परिमलं बाहुल्येन प्रसारयन् । अत एव फुळ्ळन्धयेहि फुल्लन्धयैः भ्रमरैरभिलष्यमाणः प्रदेशः । तव सब्रह्मचारिभिः तेषामपि तदधिष्ठितत्वेन दि- व्यपरिमलविशिष्टप्रदेशान्वेषणे निर्बन्धो दृश्यत इति मया सब्रह्मचारिभिरित्युक्तम् । प्रदेशप्रदर्शनस्य साध्यमाह - अत्रेत्यादि । आत्मविनोदनार्थमिहागमनं, तस्य न वैषम्यमित्यर्थः ॥