पृष्ठम्:तपतीसंवरणम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । राजा – सखे ! मा मैवम् । अमीभिः खलु - - धन्यैर्मधुकरराजैर्गेयाभिरिह प्रियाभिरुचिताभिः । भुक्त्वा भोगमभीष्टं विचरद्भिरहं न तुलनीयः ॥ ६ ॥ (उपविश्य दाहवेदनां भावयन्) मां प्रत्यहो विधेर्वैपरीत्यम् । स एवायमतिनिर्वाणकरत्वेन परिकल्पितो देशः सन्तापमति- दुस्सहं तनोति । सखे ! न शक्नोम्यात्मानं धारयितुम् । तदमुष्मात् करतलोदकादानीय शिशिरवस्तूनि विरचय शयनीयम् । विदूषकैः— (क) तह । (तथा कृत्वा ) भो एत्थ सइदव्यम् । (क) तथा | भो अत्र शयितव्यम् । - - तव सहधर्मचारिभिरित्युक्तं प्रतिक्षिपति - मा मैवामिति । अमीभिः खलु म- धुकरराजैरहं न तुलनीयः । खल्विति प्रसिद्धौ | मधुकरराजत्वेन प्रसिद्धा अमी “कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्" इति वाल्मीकिनाप्युक्तम् । तेषां राजत्व- मुपपादयति – गेयाभिः गायन्तीभिः । “भव्यगेय....”(३-४-६८) इत्यादिना कर्त्तरि निपातितः । इह भुवनराज्ये । उचिताभिः सदृशीभिः निरन्तराभ्यस्ताभिश्च । प्रियाभिः सह अभीष्टं भोगं भुक्त्वा यथेष्टं विचरद्भिः । न क्वाप्यभीष्टस्य मकरन्दादेरलाभः । न क्वापि सञ्चरणनिषेधः । अत एव धन्यैः भाग्यवद्भिः । अहं न तुलनीयः राजत्व- मपि मम हासास्पदमेवाभीष्टालाभे । गिरिकान्तारादिषु दिवानिशं परिभ्रमणादह- मधन्य एवेति निर्वेदगर्भं वचनम् || ६ || एवमुक्ता तत्रोपविष्टो ज्वलनमध्यपतित इव सन्तापपीडामवलम्बमानो विधिवैपरीत्यं विमृशति - मां प्रतीति । विधेर्मा प्रति प्रातिकूल्यमाश्चर्यकरम् । वस्तुस्वभावस्यापि मां प्रत्यन्यथाकरणनिर्बन्धेन प्रातिकूल्यं ज्ञायते । अतिनिर्वाणकरत्वेन अतिसुखकरत्वेन सरसीतीरे स्फटिकमणिभिः परिक- ल्पितः स एव पूर्वनिर्मितप्रकारेणैव स्थितो निर्वाणकरत्वेन पूर्वमनुभूतश्चेदानीमति- दुस्सहं सन्तापं तनोति येन तूष्णीमासितुमपि न शक्यं तादृशं सन्तापं तनोति । १. ‘क: (तथा' इति क-ख. पाठः. -