पृष्ठम्:तपतीसंवरणम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे राजा ( शयनं नाटयित्वा पार्श्वतो विलोकयन्) सखे ! येन तस्याः शि- शिरसमीरदानादुपकृतं, तेनैवामुना नलिनीपत्रेण वीजय माम् । (विदूषकः तथा करोति) राजा - (स्मृत्या सनिःश्वासम्) अयि प्रेयसि ! तदानीमनेन नलिनी- पत्रेण वीज्यमानायां त्वयि चोदितयापि सख्या विलोचने एवमुक्ता शिशिरोपचाराय निर्दिशति — सखे ! इत्यादि ॥ -- अथ तेन सम्पादितं शयनीयमाश्रितश्चिन्तासन्तापानुबद्धनिश्श्वासस्वेदरो- माञ्चबाष्पवेपथुविवशीकृतः प्रियतमानुसन्धानसद्धीचीनपूर्वावस्थासङ्कल्पनरसिकः पूर्वं तद्वीजनसाधनं कदलीपत्रमालोक्य तदेवात्मनः सुखकरं मत्वा निर्दिशति- सखे ! इति । तवैव परिश्रमहेतुरहं जातः । तन्नियोक्ष्ये । येन तस्याः शिशिर- समीरदानात् स्वसम्बद्धस्य शीतलस्य वायोः समर्पणाद् उपकृतं, तदप्यस्म- दुपकार एव, अस्माभिः कर्तव्यं कृतमनेनेति । तेनैव पूर्वोपकर्त्रा | अमुना सुकृ- तिना । नलिनीपत्रेण वीजय | नान्यस्यैवं सन्तापहरत्वमित्यवधारणम् । । - एवं तेन नलिनीपत्रेण वीज्यमानः पूर्वं तत्र शयितां सखीभ्यामाश्वास्यमा- नामात्मना बहिर्दृष्टां तां तरुणीं प्रत्यक्षवद् भावयन् निरन्तरानुसन्धानेन परि- कल्पितं विस्रम्भमाश्रित्य तदानीन्तनावस्थानिवेदनाय सम्बोधयति - आय प्रेय- सीत्यादि । अयि आभिमुख्यं देहि । प्रेयसि ! एवम्भूतं मां प्रत्यनिष्टाचरणं तव न शोभनम् । तदेव प्रकाशयति- तदानीं त्वयि सन्तापेन शयितायां सख्योश्च शि- शिरोपचारेण पार्श्वयोरुपविष्टयोर्मयि रूपामृतपानलालसया बहिः स्थिते च, त्वयि अनेनेदानीं मदनुग्राहिणा नलिनीपत्रेण वीज्यमानायां सख्या चोदितयापि त्वया नोत्तरीयमपनीतम् । चोदितयापीति नतु स्वयमनवधानेन 'सखि ! स्तनाशुकं नलि- नीपर्णसमीरप्रसरं रुणद्धि, तदेतदपनय येन स्तनतटे समीरप्रसरो भवेद्' इति सख्या अनिवार्यवचनया चोदितया सन्तप्तयापि त्वया उत्तरीयं स्तनांशुकं नापनी- तम् । तत्र विमर्शे नान्यो हेतुः स्फुरति । मम अनन्यापेक्षिणः त्वदेकशरणस्य विलो- चने रूपामृतस्यार्द्धपानेनातितृषिते । विफलयितुम् अपरिपूर्णफले कर्तुम् इच्छन्त्या, १ १. 'ट्यति । पा' इति क पाठः. २. 'क्य) ये.' इति क. पाठ: $ पदमिदं मूलकोशेप्वदृष्टमपि व्याट्र्यानुरोधान्निवोशतम् . -