पृष्ठम्:तपतीसंवरणम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । १०१ मम विफलायतुमिच्छन्त्या त्वया नोत्तरीयमपनीतम् । तथापि मम -- पश्चात्कृतस्फटिक भित्तिनिरोधयत्नै- रप्यावृते नयनरश्मिभिरंशुकेन । प्रालेयपाण्डुकलधौतपयोरुहाभे पर्युत्सुकैः पतितमेव पयोधरे ते ॥ ७ ॥ न त्वत्यन्तवैफल्यम्, अवश्यदृश्यस्यादर्शनाद् वैफल्यमेव फलितमिति तथोक्तम् । उत्तरीयस्यानपनयनेऽयमेव हेतुः - इच्छन्त्येति । इच्छेवात्र जाता, अभिलषितं न सिद्धम् । अस्मदुत्साहेन त्वदनिष्टमपि साध्यं निर्व्यूढमित्याह – तथापीति । तथापि त्वत्प्रातिकूल्ये सत्यपि | मम नयनरश्मिभिः ते पयोधरे पतितमेव । त्वत्प्रा- तिकूल्येन खिन्नयोर्नयनयो रश्मिभिः पर्युत्सुकैः प्रतिबन्धेन कालातिपातमसह- मानैः । कथं स्फटिकमण्डपान्तः स्थिताया स्तनकञ्चुकवत्या मम पयोधरे बहिः स्थितैः पतितमिति तवानुपपत्तिश्चेद् बोधयामि – पश्चात्कृतस्फटिकभित्तिनिरोधयत्नैः स्फटिकभित्त्या निरोधः स्फटिकभित्तिनिरोधः, तत्र यत्त उद्यमः असौ मां मा द्रा- क्षीदिति, स पश्चात्कृतोऽन्यथाकृतो यैः स्फटिक भित्तिलङ्घनात् । अथवा पश्चा- त्कृतस्फटिकभित्तिनिरोधः पृष्ठतः कृतस्फटिकभित्तिनिरोधो यत्नः येषां तैः । आवर- णान्तरं कथं निरस्तमिति चेत्, तन्न कार्यकरत्वेन नाङ्गीकृतमित्याह - अंशुकेना- वृतेऽपीति | पूर्वोक्तस्य स्फुटीकरणमेतत् । त्वया नापनीतमित्युक्ते किमन्येनाप- नीतम् अथवा नयनरश्मिभिरित्याशङ्कायाम् अपनीतमेवाविष्कर्तुं पुनरुक्तिः । दृढ- तरस्फटिक भित्तिलङ्घनसमर्थानामतिसूक्ष्मस्तनांशुकलङ्घने कः प्रयास इति युक्त्या विरोधमङ्गीकृत्य पतनं समर्थितम् । प्रतिबन्धे सति साध्यसिद्धिं प्रत्यवधारणं परा- जयपरिहारायैव । अन्यथोभयसंवादसुभगं लक्षणं कथनीयमिति चेत्, तदपि कथयामि । प्रालेयपाण्डुकलधौतपयोरुहाभे प्रालेयेन हिमजलेन पाण्डु ईषद्विवर्ण यत् कलधौतपयोरुहं कनककमलं तस्येव आभा यस्य | कनककमलस्य प्रालेयसम्ब- न्धेन पाण्डुतैव भवति, अन्यस्य विशीर्णदलत्वम् । पाण्डुता च न पूर्वोत्तरकाला- नुबद्धा प्रालेयस्यान्तरालिकत्वात् । कलधौतग्रहणं पाण्डुतया नातीव शोभाहानि- रिति । कलधौतपयोरुहाभे इत्युक्तं पयोधरस्य पाण्डत्वमपि तद्वदान्तरालिकमेवेति -